________________
१००
स्तोत्र-रास-संहिता
कत्वं कवित्वम् । निष्णातः शब्दशास्त्रे समयनिपुणतां चारुनैमित्तिकत्वम् ॥ ईहध्वे जागरूकं यदि महिमकरीं निर्मला सर्व विद्याम् । सेवध्वं तत्त्रिशुध्या जिनकुशलगुरु कामिते कल्पवृक्षम् ||४|| अंगे बंगे कलिंगे मगधजनपदे गुज रे मालवे वा सौराष्ट्र मेदपाटे मरुषु किमपरं भूर्भुवःस्वस्त्रयेपि ॥ ग्रीष्मे निर्नीरदेशे ललितवितरणामोष्टदानप्रसूतान् । कीर्तिस्ते विस्तरंती जिनकुशलगुरो । पावयत्येव विश्वम् ||५|| सिद्धिः स्वपाणिपा विलसति हि यया स्वान्यसौख्योदयः स्याद्धाले सौभाग्यलक्ष्मीरधिवसति ययोत्सर्पति श्रीरभीष्टा || बुद्धिः सा कापि चित्ते स्फुटति किल यया कृष्यते सर्वदा त्वं । त्वद्भक्तानां नराणां जिनकुशलगुरो दुर्लभं नैव किंचित् ||६|| वाद्धौं वायुप्रवेगप्रजनितवहनोत्पातसंपातमध्ये ज्वालाजिह्वे कराले ज्वलति चयरतस्तस्करोपद्रवे वा ॥ क्ष्मापाले क्रोधरुद्धे हरिकरिभुजगामोगरोगादियोगे । ध्यायंति' त्वत्प्रमावं जिनकुशल गुरो नैव कष्टं लभन्ते ॥७॥ सूरीन्द्रश्रीसुध
प्रिभुपदवितताचार्यवयानुधुर्या । मासाद्योद्यत्प्रभावो विशदखरतरश्लाघ्यगच्छेश्वरत्वं ॥ सम्यगज्ञानक्रियाभ्यां जिनमतमतुलं प्रौढमारूप्य रूपाम् प्राप्तस्वर्गश्रियं श्रीजिनकुशलगुरुर्वा छितं वः पिपर्तुः ||८|| श्रीजिनकुशलगुरूणामष्टकमिष्टसिद्धबुधिकरं । यः पठति गुणात्सततं स स्यामोक्ता च वक्ता च ||९||