________________
चतुर्थः प्रकाशः
१९९ एकान्नेन महीपाल ! चातुर्मास्यं निषेवते । , चतुर्भुजो नरो भूत्वा, प्रयांति परमं पदम् ॥ नक्तं न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः । सर्वकामानवाजोति, इह लोके परत्र च ॥ यस्तु सुप्ते हृषीकेशे, मद्यमांसानि वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच्च शतं समाः ॥ इत्यादि । तथा मार्कण्डेय उवाचतैलाभ्यङ्गं नरो यस्तु, न करोति नराधिप ! । बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥ पुष्पादिभोगसन्त्यागात् स्वर्गलोके महीयते । कट्वम्लतिक्तमधुरकषायक्षारजान् रसान् ॥ यो वर्जयेत् स वैरूप्यं, दौर्भाग्यं नाप्नुयात्क्वचित् । ताम्बूलवर्जनाद्राजन् ! भोगी लावण्यमाप्नुयात् ॥ फलपत्रादिशाकं च, त्यक्त्वा पुत्रधनान्वितः । मधुस्वरो भवेद्राजन्नरो वै गुडवर्जनात् ॥ लभते सन्तति दीर्घा, तापीपक्वस्य वर्जनात् । भूमौ संस्तरशायी च, विष्णोरनुचरो भवेत् ॥ दधिदुग्धपरित्यागाद् गोलोकं लभते नरः । यामद्वयं जलत्यागान्न रोगैः परिभूयते ॥ एकान्तरोपवासी च, ब्रह्मलोके महीयते । धारणान्नख-लोमानां, गङ्गास्नानं दिने दिने ॥ परान्नं वर्जयेद्यस्तु, तस्य पुण्यमनन्तकम् । भुञ्जते केवलं पापं, यो मौनेन न भुञ्जते ॥ उपवासस्य नियम, सर्वदा मौनभोजनम् । तस्मात् सर्वप्रयत्नेन, चातुर्मास्ये व्रती भवेत् ॥ इत्यादि भविष्योत्तरपुराणे । ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरि
श्रीभुवनसुन्दरसूरिशिष्य-श्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां ... श्रीश्राद्धविधिप्रकरणवृत्तौ चतुर्मासीकृत्यप्रकाशकश्चतुर्थः प्रकाशः ॥