________________
८४
श्राद्धविधिकौमुदीसङ्क्षेपः
गुरूक्ते श्रुतेऽपि निद्रादिमिषेण प्रत्युत्तरादानम् । किञ्चिदालाप्यं गुरोः पूर्वमालापयति । आहारादिकं ( अशनादिकं ) प्राक् साध्वन्तराणामालोचयति, ततो गुरोः । एवमुपदर्शयति अशनादिभिः पूर्वमन्यान्निमन्त्रयति ततो गुरून् । 'खद्धत्ति' गुरुमनापृछ्य स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते । 'आइअणेत्ति' गुरोर्यत् किञ्चिद् दत्त्वा स्निग्धादि यथेष्टं स्वयं भुङ्क्ते । अप्रतिश्रवणं प्राग्वद्, नवरं प्राग् रात्रौ सुप्तंजागरितपृच्छाविषयम् इह तु सामान्येन । 'खद्धत्ति' - अत्ति गुरुं प्रति बहुकर्कशोच्चैः स्वरं वक्ति । आलापितः स्वस्थानस्थ एव प्रत्युत्तरयति । गुर्वाहूतः किमिति वति । गुरुणा नोदितस्तज्जातेन प्रतिहन्ति, यथा कुतो ग्लानादेर्वैयावृत्यं न करोषीत्युक्तो वक्ति त्वमेव किं न करोषि । गुरोः कथां कथयतो न सुमनाः स्यात् किन्तु विमनाः गुरुं सूत्रादिकं वदन्तमेवं वक्ति, यथा न स्मरसि त्वमेतमर्थं न चैषोऽर्थ एवं भवति । गुरौ कथां कथयति तां कथामाच्छिनत्ति यथाहं कथयामीति । पर्षदं भिनत्ति यथा सम्प्रति भिक्षावेलेत्यादि । कथनेन अनुत्थितायां पर्षदि गुरूक्कामेव कथां स्वस्य पाटवादिज्ञापनाय सविशेषं कथयति । शय्यासंस्तारकादि पादाभ्यां घट्टयति। गुरुशय्यादौ स्थानादि करोति । गुरोः सकाशादुच्चासनः । एवं समासनः । आवश्यकचूर्ण्यादौ तु गुरौ कथां कथयति एवमेतदित्यन्तराले शिष्यस्य वचनमाशातना पृथगुक्ता । गुरोः पाशर्वादुच्चसमासनत्वं चैकैव इति त्रयस्त्रिंशद् गुर्वाशातनाः । गुर्वाशातना चैवं त्रिधा । गुरोः पादादिनां सङ्घट्टादौ जघन्या । श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा । गुर्वादेशाऽकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टा ३। स्थापनाचार्यस्येतस्ततश्चालनपादस्पर्शादौ जघन्या, भूमिपातनावज्ञामोचनादौ मध्यमा, प्राणाशनभङ्गादावुत्कृष्टा । एवं ज्ञानोपकरणवत् दर्शनचारित्रोपकरणस्य रजोहरणमुखवस्त्रिकादण्डकदण्डिकादेरपि । 'अहवा नाणाइ तिअं' इति वचनाद् गुरुस्थाने स्थाप्यत्वेनाविधिव्यापारणादधिका तदाशातनापि