SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावानाविर्भवेद्यावच्छैलेश्यां शुद्धसंयमः ।।१३८।। व्यवहारे तपोज्ञानसंयमा मुक्तिहेतवः । एक: शब्दर्जुसूत्रेषु संयमो मोक्षकारणम् ।।१३९।। संग्रहस्तु नयः प्राह जीवो मुक्तः सदा शिवः । अनवाप्तिभ्रमात्कंठस्वर्णन्यायात् क्रिया पुनः ।।१४०।। अनन्तमर्जितं ज्ञानं त्यक्ताश्चानन्तविभ्रमाः ।। नचित्रं कलयाप्यात्मा हीनोऽभूदधिकोऽपि वा ।।१४१।। धावन्तोऽपि नया: सर्वोस्युर्भाव कृतविश्रमाः । . चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ।।१४२।। सुनिपुणमतिगम्यं मन्दधीदुःप्रवेशं प्रवचनवचनं न क्वापि हीनं नयौधैः . गुरुचरणकृपातो योजयंस्तान् पदेयः परिणमयतिं शिष्यांस्तं वृणीते यश :श्रीः।।१४३।। गच्छे श्री विजयादिदेवसुगुरोः स्वच्छे गुणानां गणे: प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरूः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्त्वं किंचिदिदं यशोविजय इत्याख्याभृदांख्यातवान् ।।१४४।। ।। इति नयोपदेशः ।। లు బడ పడ ల డ ల ల డ బ బడబడబడబ డ డ ప ల ల ల नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy