SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ "अस्थि जिओ णियो कत्ता भुत्ता सपुनपावाणं । • अत्थि धुवं निव्वाणं तस्सोवाओ अ छठ्ठाणा ।।१।। इति" . को विशेष इत्यत आह-नास्तित्ववादे गुरुशिष्यक्रियाक्रियाफलादिव्यवहारलोपान्मार्गत्यागः, अस्तित्ववादे चोक्तव्यवहारप्रामाण्यविश्वासे तत्प्रवेशः, इत्येताभ्यां हेतुभ्यां फलतस्तत्त्वं सम्यक्त्वमिथ्यास्थानकत्वमिष्यते ।।१२३।। स्वरूपतस्तु सर्वेऽपि स्युमिथोऽनिश्रिता नयाः ।.... मिथ्यात्वमिति को भेदो नास्तित्वास्तित्वनिर्मितः ।।१२४।।.. मिथोऽनिश्रिता इति स्याद्वादमुद्रया परस्पराकांक्षारहिता इति तेषां भेदो भविष्यतीत्यत आह ।।१२४।। धर्म्यशे नास्तिको को बार्हस्पत्यः प्रकीर्तितः । धर्माशे नास्तिका ज्ञेयाः सर्वेऽपि परतीथिकाः ।।१२५॥ - धर्मिण आत्मनोंऽशे नास्तित्वभागे एकश्चार्वाको नास्तिकः प्रोक्तः, धर्माणामात्मनः शरीरप्रमाणत्वनानात्वादीनामंशे नास्तित्वपक्षे सर्वेऽपि नैयायिकवैशेषिकवेदान्तिसांख्यपातंजलजैमिनीयादयः परतीर्थिका नास्तिका ज्ञेयाः ।।१२५ ।। इत्थमेव क्रियावादे.सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाज्ञानाक्रियाविनयवादिषु ।।१२६ ।। क्रियायां पक्षपातो हि पुंसां मार्गाभिमुख्यकृत् । . अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ।।१२७।। क्रियायां पक्षपातो मोक्षेच्छया आवेशो हि पुंसां मार्गानुसारिता । तदुक्तं दशाचूर्णी "जो अकिरियावाई सो भविओ अभविओ वा कण्हपख्खिओ सुक्कपख्खिओ वा, जो किरियावाई सो णियमा भविओ णियमा सुक्कपख्खिओ अंतो पुग्गलपरियट्टस्य सिज्जइ इत्यादि । (Gatewasaccosमकाजळजनजजन नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy