________________
एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति । समग्रार्थग्राहित्वाञ्चास्य नयस्य नानेन देशप्रदेशौ गृह्यते । एवं जीवौ जीवा इति द्वित्वबहुत्वाकारितेष्वपि । सर्वसङ्ग्रहणे तु जीवो नोजीवः अजीवो नोअजीव: जीवौ नोजीवौ अजीवी नोअजीवौ इत्येकद्वित्वाकारितेषु शून्यम् । कस्मात् । एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छति यथार्थग्राही । शेषास्तु नया जात्यपेक्षमेकस्मिन्बहुवचनत्वं बहुषु बहुवचनं सर्वकारितग्राहिण इति । एवं सर्वभावेषु नयवादाधिगमः कार्यः ।
अत्राह । पञ्चानां ज्ञानानां सविपर्यायाणां कानि को नयः श्रयत इति । अत्रोच्यते । नैगमादयस्रयः सर्वाण्यष्टौ श्रयन्ते । ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ।
अत्राह । कस्मान्मतिं सविपर्ययां न श्रयत इति । अत्रोच्यते । श्रुतस्य सविपर्ययस्योपग्रहत्वात् । शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ।
अत्राह । कस्मान्नेतराणि श्रयत इति । अत्रोच्यते । मत्यवधिमन:पर्यायाणां . श्रुतस्यैवोपग्राहकत्वात् । चेतनाज्ञस्वाभाव्याञ्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो .. वा जीवो विद्यते । तस्मादपि विपर्ययान्न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमा. नाप्तवंचनानामपि प्रामाण्यमभ्यनुज्ञायत इति । अत्राह च
विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च । ‘विन्यस्य परिक्षेपानयैः परीक्ष्याणि तत्त्वाणि ।।१।। ज्ञानं सविपर्यासं त्रयः श्रयन्त्यादितो नयाः सर्वम् । सम्यग्दृष्टेनिं मिथ्यादृष्टेविपर्यासः ।।२।। ऋजुसूत्रः षट् श्रयते मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः श्रयते नाऽन्यच्छृताङ्गत्वात् ।।३।।
""LTDASTDOORDANTOOTHottesCDsनकळमजाककान