________________
विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादि यथासंभवमुपादेयम् । तत्प्रवणत्वं च तन्नियतबुद्धिव्यपदेशजनकत्वं तेन नार्थरूपसङ्ग्रहस्य नयजन्यत्वानुपपत्तिदोषः । 'संगहिय-पिंडियत्थं संगहवयणं समासओ बिंति' इति सूत्रम् । (अनु. १५२) अत्र सङ्गृहीतं सामान्याभिमुखग्रहणगृहीतं, पिण्डितं च विवक्षितैकजात्यु - परागेण प्रतिपिपादयिषितमित्यर्थः ।
!
सङ्गृहीतं महासामान्यं, पिण्डितं तु सामान्यविशेष इति वार्थः 'अर्थानां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः' इति तत्त्वार्थभाष्यम्
अर्थेति । अत्र सर्वं सामान्यं, एकदेशश्च विशेषः । तयोः सङ्ग्रहणं सामान्यैकदेश- स्वीकार इत्यर्थः ।
अयं हि घटादीनां भवनानर्थान्तरत्वात् तन्मात्रमेव स्वीकुरुतें, घटादिविशेषविकल्पस्तु अविद्योपजनित एवेत्यभिमन्यते ।
जगदैक्ये घटपटादिभेदो न स्यादिति चेत्, न स्यादेव वास्तवः, रज्जौ सर्पभ्रमनिबन्धनसर्पादिवद् अविद्याजनितोऽनिर्वचनीयस्तु स्यादेवेत्याद्या एतन्मूलिका औपनिषदादीनां युक्तयः ।।
अस्यापि चत्वारो निपेक्षा अभिमताः ।।
व्यवहारनयनिरुपणम् :
'लोकव्यवहारौपयिकोऽध्यवसायविशेषो व्यवहारः '
'as विणिच्छियत्थं ववहारो सव्वदव्वेसु' इति सूत्रम् (अनु. १५२)
'विणिच्छियत्थं' इति । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् । अत एव विशेषेण अवह्रियते निराक्रियते सामान्यमनेनेति निरुक्तयुपपत्तिः ।
अयं हि जलाहरणाद्युपयोगिनो घटादिविशेषानेवाङ्गीकरोति न तु सामान्य, अर्थक्रियाऽहेतोस्तस्य शशशृङ्गप्रायत्वात् ।
१६०८८८
नयामृतम्