SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत् । भिन्नपर्याययोर्न स्यात् स कुंभपटयोरपि ।।१६।। १० एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्यं स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् ।।१७।। यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते । । १८ ।। यथोत्तरं विशुद्धाः स्युर्नयाः सप्ताप्यमी तथा । एकैकः स्याच्छतं भेदास्ततः सप्तशतान्यमी । । १९ ।। अथैवंभूतसमभिरूढयोः शब्द एव चेत् । अन्तर्भावस्तदा पंच नयपंचशतीभिदः ।। २० ।। द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी । आदावादिचतुष्टयमन्त्ये चान्त्याऽस्त्रयस्ततः ।। २१ ।। सर्वे नया अपि विरोधभृतो मिथस्ते,. सम्भूय साधुसमयं भगवन् भजन्ते । भूपा इव प्रतिभटा भुवि सार्वभौमपादाम्बुजं प्रधनयुक्तिपराजिता द्राक् ।। २२ ।। १- २. वसन्ततिलका इत्थं नयार्थकवचः कुसुमैर्जिनेन्दु - वीरोऽर्चितः सविनयं विनयाभिधेन । श्रीद्वीपबंदरवरे विजयादिदेव सूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै ।। २३ ।। १ ।। शुभं भूयान्नयज्ञानां नयज्ञानाभिलाषिणां च ।। - नवामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy