SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ॥ नयचक्रसारः ॥ नयास्तु पदार्थज्ञाने ज्ञानांशाः । तत्रानन्तधर्मात्मके वस्तुन्येकधर्मोन्नयनं ज्ञानं नयः तथा “रत्नाकरे” नीयते येन श्रुताख्यंप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः, (प्र.न. तत्त्वा. ७.१) स्वाभिप्रेतादंशादितरांशापलापी पुनर्नयाभास:, (प्रमा. ७.२) स व्याससमासाभ्यां द्विप्रकारः । व्यासतोऽनेकविकल्पः समासतो द्विभेदः । द्रव्यार्थिकः पर्यायार्थिकः । तत्र द्रव्यार्थिकश्चतुर्धा (१) नैगम, (२) संग्रह, (३) व्यवहार, (४) ऋजुसूत्रभेदात्, । पर्यायार्थिकस्त्रिधा (१) शब्द (२) समभिरूढ (३) एवंभूतभेदात् । विकल्पान्तरे ऋजुसूत्रस्य पर्यायार्थिकताप्यस्ति । स नैगमस्त्रिप्रकारः आरोपांशसङ्कल्पभेदात्, विशेषावश्यके तूपचारस्य भिन्नग्रहणात् चतुर्विधः । न एके गमा आशयविशेषा यस्य स नैगमः । तत्र चतुःप्रकार आरोपः द्रव्यारोप- गुणारोपकालारोप-कारणाद्यारोपभेदात् । तत्र गुणे द्रव्यारोपः पञ्चास्तिकायवर्तनागुणस्य कालस्य द्रव्यकथनं एतद् गुणे द्रव्यारोपः । १ ज्ञानमेवात्मा अत्र द्रव्ये गुणारोपः । २ (१३८ ८ ८ ८ ८ नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy