________________
सम्भवात् सङ्कर-व्यतिकर-विरोध-वैयधिकरण्यानवंस्थासंशया-प्रतिपत्तिः अभावश्चेति ।
सर्वथा भव्यस्यैकान्तेऽपि तथा, शून्यताप्रसङ्गात् स्वभावरूपस्यैकान्तेन संसाराभावः । विभावपक्षेऽपि मोक्षस्याभावः ।
सर्वथा चैतन्यमित्युक्ते सर्वेषां शुद्धज्ञानचैतन्यव्याप्तिः स्यात्, तथा सति ध्यानं ध्येयं, ज्ञेयं ज्ञानं गुरुशिष्याद्यभावः । । ___ सर्वथाशब्दः सर्वप्रकारवाची अनेकान्तवाची वा, सर्वादिगणे पठनात्. । सर्वशब्दः एवंविधश्चेत् तर्हि सिद्धं नः समीहितं । अथवा नियमवाची चेत् तर्हि सकलार्थानां तव प्रतीतिः कथं स्यात् ? नित्यमनित्यमेकमनेकं भेदोऽभेद (इति) कथं प्रतीति: स्यात् ? नियमितपक्षत्वात् ।
तथा चैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् । मूर्तस्यैकान्तेनात्मनो न मोक्षस्य व्याप्तिः स्यात् । सर्वथाऽमूर्तस्य तथात्मनः संसारविलोपः स्यात् । .
एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्व एव हानिः स्यात् ।
सर्वथानेकप्रदेशत्वेऽपि तथा । तस्यार्थक्रियाकारित्वं स्वस्वभावशून्यताप्रसङ्गात् । शुद्धस्यैकान्तेन आत्मनो न कर्ममलकलङ्कावलेपः स्यात्, सर्वथा निरञ्जनत्वात् ।
सर्वथाऽशुद्धैकान्तेऽपि तथात्मनो न कदाचिदपि शुद्धस्य भावः = प्रसङ्गः स्यात्, तन्मयत्वात् ।
उपचरितैकान्तपक्षेऽपि नात्मज्ञानं सम्भवति, नियमितपक्षत्वात् ।। तथात्मनोऽनुपचरितपक्षेऽपि परज्ञानादीनां विरोधः स्यात् । श्लोकःनानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः ।
तच सापेक्षसिद्ध्यर्थं स्यान्नयमिश्रितं कुरू ।। (१३२.
नयामृतम् )
-