________________
असावयोगोऽपि मनोवचोङ्गव्यापाररोधात् सकलप्रकारैः । अवादि मुक्या सह योजनेन योगो भवाम्भोनिधिरोध एषः ॥११॥ अमुं च योगं समुपाजगन्वान् प्राप्नोति मोक्षं क्षणमात्र एव । सर्वज्ञभाषावसरेऽवशिष्टकर्माणि हन्ति भणतो यदेषः ॥ १२ ॥ अनेन योगेन विकर्मकीसन् मुक्तो भवेत् तत्क्षणमस्तदेहः । मुक्तिश्च केत्येव गभीरप्रश्ने जैनेन्द्रमार्गेण समाधिरेषः ॥ १३ ॥ ऊवं यथाऽलाबुफलं समेति लेपेऽपयाते सलिलाशयस्थम् । ऊर्य तथा गच्छति सर्वकर्मलेपप्रणाशात् परिशुद्ध आत्मा ॥१॥ अयं स्वभावोऽप्युपगन्तुमही यदृर्ध्वमात्मैति विकर्मकत्वे । ऊध प्रगच्छन्नवतिष्ठतेऽसौ क्षणेन लोकाप्रपदे परात्मा ॥ १५ ॥ ततोऽध आयाति न गौरवस्याऽभावा नचाप्रेऽप्यनुपमहत्वात् । नचास्ति तिर्यग्गतिसम्प्रयोक्ता लोकाग्र पब स्थितिरस्य युक्ता ॥१६॥ महेश्वरास्ते परमेश्वरास्ते स्वयम्भुवस्ते पुरुषोत्तमास्ते । पितामहास्ते परमेष्ठिनस्ते तथागतास्ते सुगताः शिवास्ते ॥१७॥ स ईश्वरों हे बहुभागधेयाः ! स्ताद वो मनोधारिरहस्य ईसः। 'अयं हि पन्था अवधारणीयश्चैतन्यशक्तिप्रगतावनन्यः ॥ १८ ॥ .
आलम्बन भवति यादशमीदगात्माऽs___.पत्तिनिजात्मनि भवेदिति को न वेति । आलम्बन सकललोकपतिः परात्मा
संश्रीयते यदि तदा किमपेक्षणीयम् ? ॥ १९ ॥