SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) अषष्ठीतृतीयादन्याद्दोर्थे ।३।२।११६ अषष्ठमन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे द् अन्तो वा स्यात् । अन्यदर्थः । अन्यार्थः । षष्ठयादिवर्जनं किम् ? अन्यस्यान्येन वाऽर्थोऽन्यार्थः ॥११॥ 'अषष्ठीतृतीयात्"इति 'अन्यात् इत्यस्य विशेषणम्, विशेषणेन च तदन्त- ... विधिरिति अषष्ठयन्तादतृतीयान्ताच्चेत्यर्थलाभः।संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्यइंतिनिषेधस्तु प्रत्ययग्रहण तदन्तग्रहणम्' इति न्यायप्राप्तस्यैव तदन्तग्रहणस्य साजात्यात् न तु विशेषणत्व-प्रयुक्ततदन्तग्रहणस्येति विज्ञेयम्।दोऽन्तो वा स्यादिति-अर्थादन्यशब्दस्यैवान्तः . . सप्तमीश्रुत्या 'सप्तम्याः पूर्वस्य'।७।४।१०५॥ इति परिभाषाबलात् । अन्यशचासौ अर्थश्च, अन्योऽर्थो यस्येत्यादिविग्रहे अन्यदर्थः,अन्यार्थ इति ॥११६।। आशीराशास्थितास्थोत्सुकोतिरागे ।३।२।१२०॥ एकूत्तरपदे अषष्ठीतृतीयादन्याह, अन्तः स्यात् । अन्यदाशीः । अन्यदाशा । अन्यदास्थितः । अन्यदास्था । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अषष्ठीतृतीयादित्येव ? अन्यस्य अन्येन वा आशीः अन्याशीः ॥१२०॥ पृथग्योगाद् वेति निवृत्तम्। अन्या आशी:अन्यदाशीः।अन्या आशा अन्यदाशा। अन्यमास्थितः अन्यदास्थितः,अन्या आस्था अन्यदास्था.। अन्यस्मिन् उत्सुक:अन्यदुत्सुकः, अन्या ऊतिः-अन्यदूतिः, अन्यत्र रागः अन्यद्रागः ॥१२०॥ ईयकारके ।३।२।१२१॥ अन्यावीये प्रत्यये कारके चोत्तरपदे दोऽन्तः स्यात् । अन्यदीयः । . अन्यत्कारकः ॥१२१॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy