________________
पोडशाधिकार प्रकरणम् मनोगतम्
धर्मतो याकिन-महत्तरा-सूनु-परमर्षि श्रीमद्-हरिभद्रसूरि प्रणितं 'षोडशाधिकार प्रकरणं' मूलरूपेण प्रकाश्यतेऽस्यां पुस्तिकायाम् । सटीकस्य तस्य प्रकाशनावसरे पूज्यपादैः प्रभावकैराचार्य:श्रीमद् विजयमुक्तिप्रभसूरिभिः प्रेरितोऽहं सूत्राध्ययन-रसिकानां साधु- साध्वीप्रभृतिसाधकानां सुखेन मुखपाठसिद्धयै मूलमात्रस्य संपादनार्थम् । महतीयमानन्दवार्ता यत् संघेऽत्रैवंविधस्यार्थगंभीरस्य ग्रन्थस्य कण्ठस्थीकरणद्वारेण हृदयप्रतिष्ठापनार्थ प्रयतते साधकवर्गः । हृदयस्थितस्य आप्तवचनरूपशास्त्रस्य सर्व-सिद्धि-मूलत्वं स्वयमेव ख्यापित परमर्षिभिः प्रकरणेऽस्मिन् । एवं च शास्रमुखपाठपरंपरया प्राप्तं हृदयस्थितं शास्त्रमेव वीतरागपुरस्कारादिद्वारेण सर्व-सिद्धि फैलं न पुस्तकस्थं शब्दमात्रमिति फलितम् । अत
एवोक्तम्
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पनें न सा विद्या न तद् धनम् ।। संघे चतुर्विधेऽपि लोपाभिमुखं गच्छन्ती प्राचीनेयं मुखपाठपरंपरा पुनरपि उजागरिष्यति एवंविधेन प्रयासेनेत्याशासे । प्रकाशन-साहाय्यंकः सीसोदरा संघोऽपि साधुवादार्हः ।
लघुकृतिरियं वर्तमानगच्छाधिनायकानां कुशलानुशास्तृणां पूज्यतमानां आचार्य प्रवराणां श्रीमद् विजयमहोदयसूरीश्वराणां समर्प्य कृतार्थाभावमनु भवति सिद्धान्तवाचस्पतीनां पूज्यतमानामाचार्यचन्द्राणां श्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यलेशः पितृगुरुमुनिप्रवरश्रीसंवेगरतिविजयानां अनुजमुनिवरश्रीप्रशमरतिविजयस्य च सतीर्थ्यबांधवो वैराग्यरतिविजयाभिधो मुनिः विक्रमस्य २०५५ तमे वर्षे विदर्भदेशस्थ नागपुर महानगर मण्डनश्रीमुनिसुव्रतजिनप्रासादस्य त्रयोविंशतितमे प्रतिष्ठादिने फाल्गुनस्य कृष्णैकादशी तिथी शनिवासरे । इति ।