________________
॥ अषवृत्त्यादिसमेतं नवतत्त्वप्रकरणम् ॥ (१३) सङ्ख्यातः कालः पल्योपमादिकः, तद्वक्तव्यता चैवं- आयामदीपों डत्वेन योजनप्रमाणः कृपः क्रियते, ततः सोऽनुक्रमेण सप्तदिनजातयुगलिककेशनिर्विभागखण्डैः संनिचितं भ्रियते, ततो वर्षशतैर्वर्षशतैरेकैकं केशाग्रमुद्भियते । यावता सर्वथा शुषिरीभवति,एवमेकं पल्योपमं स्यात् , दनकोटाकोटिपल्योपमैरेकं सागरोपमं, दशकोटाकोटिसागरोपमैरेका उत्सप्पिणी, तारन्मात्रावसप्पिणी,एवं रूपःकालो भणितः तीर्थकरैरिति एतदर्थप्ररूपिका वृहत्सङ्ग्रहणिगाथाश्चैता:
"जं जोयण विच्छिन्नं, तं निउणं परिरपण सविसेसं । तावइयं उविद्धं, पल्लं पलिओवमं नाम ॥ १ ॥ एगाहिय बेहिय तेहियाण, उक्कोसं सत्तरत्ताणं । सम्मत्तं संनिचियं, भरियं तं वालकोडीणं ॥ २ ॥ वाससए वाससए, इकिके अवहियमि सुहुमंमि। सुहुमं अद्धापलियं, हवंति वासा असंखिजा ॥ ३ ॥ एएसिं पल्लाणं, कोडाकोडी हविज दसगुणया। तं सागरोवमस्सवि, परिमाणं हवइ एगस्स ॥ ४ ॥ दस सागरोवमाणं, पुन्ना उ हुंति कोडाकोडिउ ।
उस्सप्पिणीइ माणं, तं चेवुस्सप्पिणीए वि ॥५॥" इति गाथार्थः। अद्धास्वरूपमुक्तं, अथपुण्यतत्वस्य प्रकृतीर्गाथायुगेनाह
(सा० अ०) समयावलीति-समयोऽत्यंतसूक्ष्मकाल: । आवलिका असंख्यातसमयप्रमाणा। निगोदजीवानां एकश्वासोच्छासमध्ये मतदशवारान् यावन्मरणं अष्टादशसंख्योप्तत्तिरपि भवति, तेषां आयु: (२५६) आवलिका मानं, मुहर्त घटीद्वयप्रमाणं । दिवसोऽहोरात्ररूपः त्रिशन्मुहत्तप्रमाणः । पक्षः पंचदशाहोरात्ररूपः। मासः पक्षद्वयप्रमाणः। वर्ष द्वादशमासप्रमाणं । पल्योपमं कपदृष्टांतेन प्रसिद्धम् सागरोपमं दशकोटाकोटीपल्योपमप्रमाणम् । उत्सर्पिणी दशकोटाकोटीसागरोपमप्रमाणा। उत्सर्पिणीप्रमाणैवावसर्पिणी । एषसर्वोऽपि कालः सूर्यगतिक्रियापरिच्छिन्नो ज्ञातव्यः । एवं अजीवतत्त्वस्य चतुर्दशभेदाः प्रोक्ताः ॥ इत्यजीवतत्त्वम् ॥ अथ पुण्यतत्त्वं द्विचत्वारिंशद्भेदं विवृणोति ॥