________________
( ७६ ) || श्रीनवतत्त्वपरिशिष्टानि. नं. घ थी ज. ( ६ थी १० ) ॥ ज्यभागाः, प्रतिप्रदेशं च कर्मणामनन्ता वर्गणाः, अयमर्थः, एकैकस्मिञ्च गोलके असङ्ख्येया निगोदाः, निगोदश्चानन्तानां सूक्ष्मनामकमोंदयवर्त्तीनां जीवानामेकं साधारणं शरीरमित्यर्थः, ते च चतुर्दश रज्ज्वात्मके लोके यत्र स्थाने चिन्त्यन्ते तत्र असङ्ख्याता एव प्राप्यन्ते, एकैकस्मिश्च निगोदेऽनन्ता जीवाः, तेषां सर्वेषां जीवानां तेजः शरीरं कार्मणशरीरं च पृथक् २ वर्त्तते, प्रतिजीवं च प्रदेशा असङ्ख्येयाः, तांश्च यद्येको जीवः स्वशक्त्या विरलीकरोति, नदा एकस्यापि जीवस्य प्रदेशैः सर्वोऽपि चतुर्द्दशरज्ज्वात्मको लोकः पूर्यते । प्रदेशश्च निर्विभाज्य भागः अतिसूक्ष्मोऽंश इत्यर्थः, संसारिजीवानां चैते प्रदेशाः ॥ ] [पड़वग्गणमणंता, अणू पहअणु अनंतपज्जाया । एवं लोग सरूवं, भाविज्जइ तहत्ति जिणवुत्तं ॥ १०१]१२९
[ ( अ० ) प्रतिवर्गणां चानन्ता अणवः परमाणवः, प्रतिपरमाणुस्वपरभेदवन्तः द्रव्याद्यपेक्षया भूतभविष्यद्वर्त्तमानकालभाविनोऽनन्ताः पर्यायाः, एवं लोकस्वरूपं जिनोक्तमिति तथेति यथार्थप्रतीत्या भावयेत् ॥ ] [*पुढवाईया सत्ता, सव्वे रुक्खा हवंति भृआवि । पाणा बितिचउरिंदी, चउहा पंचिंदिया जीवा ॥ १०२ १३० [ (अ०) 'पृथ्व्यादयः' पृथ्व्यप्तेजोवायुका यि काश्चत्वारः, 'सत्या' इति, सरवशब्देनोच्यन्ते, 'सर्वे वृक्षाः' वनस्पतिकायिकाः भवन्ति 'भूता अपि' इति, भूतशब्देनाभिधीयन्ते । द्वित्रिचतुरिन्द्रियाः, 'प्राणा' इति, प्राणाभिलापेन प्रतिपाद्यन्ते । 'चतुर्धा पञ्चेन्द्रिया' नारकतिर्थ नरनाकिभेदात्, 'जीवा' इति, जीवशब्दवाच्याः । तथैवागमे 'सव्वे पाणा, सव्वे भूआ, सव्वे जीवा, सव्वे सत्ता' इत्याद्यालाप केन सर्वसंसारिजीवग्रहणं दृश्यत इति ॥ ]
I
[सत्तविराहणपावं, अनंतगुणियं च एगभूअम्स । भूअस असंखगुणं, पावं एगस्स पाणस्स ।। १०३ ।। ]॥ १३१ ॥ * गाथाश्चैताः कुत्रचिन्नवतत्त्वादर्शे जीवतत्वे दृश्यन्ते पश्चादुपलब्धवादत्र न्यस्ता इत्यवधेयम् ॥