________________
|| अव० वृत्यादिसमेतं नवतश्वप्रकरणम् ॥ ( ७१ )
मेनैकेन केनचित्सूर्वपुद्गलस्पर्शनमोचनेन शेषस्पृष्टानामगणनेन सूक्ष्मः द्रव्यपुङ्गलपरावर्तः ॥ ]
[ दव्वे सुहुमपरहो, जाहे एगेण अह सरीरेण । फासेति सव्यपुग्गल - अणुक्कमेणं नणु गणिज्जा ॥ ८१ ]१०९
[ ( अ० ) द्रव्यविषयः सूक्ष्मपरावर्तः यदा एकेनौदारिकायन्यतमेनाथ शरीरेण सर्वपुद्गलान् स्पृशति अनुक्रमेण ननु गणयेत् । अयं भावः । आहारकशरीरस्याभवं चतुर्वारमेवोपलब्धेस्तद्विरहय्य चतुर्णामन्यतमेन शरीरेण मतान्तरेण सप्तानामौदारिकादीनामन्यतमेन सर्वान् पुगलाननुक्रमशः परिणमय्य स्पृशति तदा द्रव्यसूक्ष्मपुद्गलपरावर्ती भवति ॥ ]
[ लोगागासपएसा, जया मरतेण इत्थ जीवेण । पुट्टा कमुक्कमेणं, वित्तपरहो भवे थूलो || ८२ । ]॥ ११० ॥
[ ( अ ) यदै केन जीवेन म्रियमाणेन सर्वलोकाकाशप्रदेशाः क्रमोक्रमाभ्यां यावता कालेन स्पृष्टा भवन्ति तावान्कालविशेषः स्थूलो बादरः क्षेत्रपरावर्ती भवति ॥ ]
[ जीवो जहआ एगे, वित्तपएसम्मि संठिओ मरइ । पुणरवि तस्सानंतर - बीअपएसम्मि जइ मरइ ॥ ८३]१११ [ एवमणंतरमरपेण, सत्ववित्तंमि जइ मओ होइ । सुमो वित्तपरहो, अणुक्कमेणं नणु गणिज्जा ॥८४]११२
[ ( अ० ) या जीव एकस्मिन्नाकाशप्रदेशे संस्थितो म्रियते, पुनरपि तस्यानन्तरद्वितीयप्रदेशे यदि म्रियते, एवमनन्तरमरणेन सर्वक्षेत्रे यदि मृतो भवति, तदा सूक्ष्मः क्षेत्रपरार्तः, अनुक्रमेण मनुगणयेत् ॥ अयमर्थः ॥ अनन्तभवभ्रमणशीलो जन्तुर्यदाऽनन्तरेषु निरन्तरेषु वाऽन्यान्याकाशप्रदेशेषु म्रियमाण: चतुर्दशरज्ज्वात्मकान्सर्वानपि नभः प्रदेशान्स्पृशति तदा बादरः क्षेत्रपरावर्ती भवति । अत्रापूर्वस्पृष्टा गण्यन्ते पूर्वस्पृष्टास्तु न । अथ च विवक्षित एकस्मिन्प्रदेशे मृतस्ततस्तदव्यवहिते प्रदेशे यदि म्रियते स प्रदेशो गणनामायाति पुनरव्यवहिते तृतीये इत्यादिक्रमेण मरणेन सर्वे लोकाभ्र• प्रदेशा यदि स्पृश्यन्ते तदा सूक्ष्मो भवति । यद्यपि जीवस्यैकाकाशप्रदेशावगाहाभावस्तथाप्यवधीकृत एकः कश्चिद्विवक्ष्यते इति भावः ॥ ]