________________
अज्ञापितं न जानन्ति, यथा मां ज्ञापितं तथा । मूढात्मानस्ततस्तेषां, वृथा मे ज्ञापनश्रमः ॥५८॥ यद् बोधयितुमिच्छामि, तनाहं यदहं पुनः । ग्राह्यं तदपि नान्यस्य, तत्किमन्यस्य बोधये ॥५९॥ बहिस्तुष्यति मूढात्मा, पिहितज्योतिरन्तरे । तुष्यत्यन्तः प्रबुद्धात्मा, बहिावृत्तकौतुकः ॥६०॥ न जानन्ति शरीराणि, सुखदुःखान्यबुद्धयः । निग्रहाऽनुग्रहधियं, तथाप्यत्रैव कुर्वते ॥६१॥ . स्वबुद्धया यावद् गृणीयात्कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां, भेदाभ्यासे तुं निवृतिः ॥६२॥ घने वस्त्रे यथाऽऽत्मानं, न घनं मन्यते तथा । घने स्वदेहेप्यात्मानं, न घनं मन्यते बुधः ॥६३॥ जीर्णे वस्त्रे यथाऽऽत्मानं, न जीर्ण मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं, न जीर्ण मन्यते बुधः ॥६४॥ नष्टे वस्त्रे यथाऽऽत्मानं, न नष्टं मन्यते तथा । नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ॥६५॥ रक्ते वस्त्रे यथाऽऽत्मानं न रक्तं मन्यते तथा । रक्ते स्वदेहेऽप्यात्मानं न, रक्तं मन्यते बुधः ॥६६॥ यस्य सस्पन्दमाभाति, निःस्पन्देन समं जगत् । अप्रज्ञमक्रियाभोगं, स शमं याति नेतरः ॥६७॥ शरीरकंचुकेनात्मा, संवृतज्ञानविग्रहः । नात्मनं बुध्यते तस्माद्, भ्रमत्यतिचिरं भवे ॥६॥ प्रविशद्गलतां व्यूहे, देहेऽणूनां समाकृतौ । स्थितिभ्रान्त्या प्रपद्यन्ते, तमात्मानमबुद्धयः ॥६९॥
આતમ ઝંખે છુટકારો
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only