________________
पाइय-वित्ति-सहिओ
धारणता । किमिव ? स्तम्भे बद्धपुरुषवत् । नामकर्मणः का प्रकृतिः ? नानाविधशरीराणि निर्वतयतीति नाम । अथवा शुभाशुभनामनिर्माणता । किमिव ? चित्रकारवत्, सुवलु ? काष्ठशिलाकर्मकारवदिति । गोत्रकर्मणः का प्रकृतिः ? उच्च-नीचगोत्रे निवर्तयतीति गोत्रम् । अथवा उच्चनीचद्वयगोत्रनिर्माणता । किमिव ? कुम्भकारवत् । अन्तरायस्य कर्मणः का प्रकृतिः ? विघ्नकरणता । किमिव ? भाण्डागारिकवत् । अथवा गिरिदुर्गनद्यटवीवदिति ।
जं तं आभिणिबोधियणाणावरणीयं णामं तं पश्चभिरिन्द्रियर्मनसा च दृष्ट श्रुतानुभूतानामर्थानां अवग्रहहावायधारणास्वरूपेण जानातीत्याभिनिबोधिकज्ञानम्। तस्य आवरणं आभिनिबोधिकज्ञानावरणीयम् । तत्रावग्रहो 'ग्रह उपादाने धातुः', अवग्रहणमवग्रहः । अथवा विषयविषयिसन्निपातसमनन्तरमाद्यग्रहणमवग्रहः । विषया येषां विद्यन्त इति विषयिणः । तत्र ईहा नाम 'ईहा चेष्टायां धातुः', ईहनं मनसा विचारणं वा ईहा । अथवा अवगृहीतार्थस्य विशेषेणार्थकाङ्क्षणमोहा। जहा पुव्वं सामण्णेण सव्वण्हु-सदं घेत्तूण पुणो तस्स विसेसमिच्छमाणो जिणिंद-बुद्धहरि-हर-हिरण्णगब्भादीणं अत्तागम-पदत्थ-पमाण-हेदू-णय-दिटुंतेहिं जा मग्गणा सा ईहा णाम । तत्रावायो नाम 'इण गतौ धातुः, अवायनं तत्त्वार्थपरिच्छेदकरणं वा अवायः। अथवा ईहितार्थस्य निश्चय-व्यवसायोऽवायः । जहा पुव्वं हरि-हर-हिरण्णगब्भ-बुद्ध-जिणिंदाणं परिक्खा काऊण पुणो एदेसिं हरि-हर-हिरण्णगभ-बुद्धादयो सव्वण्हू अत्ता ण होदि त्ति एदेसिं अवणयण काऊग पुणो सव्वण्हू अत्ता जिणिंदो चेव होदि त्ति णिच्छयं काऊण जो अत्तपरिग्गहो सो अवायो । तत्र धारणा णाम 'धृसु धारणे' धातुः, धरणं धारणा । अथवा पूर्वगृहीतस्यार्थस्य कालान्तरादपि स्मृतिर्धारणा । जहा पुव्वं णिच्छयं कादूण जो सव्वण्हू सदु (सइ) परिग्गहो कओ दीहेणं कालेणं अविस्सरणं सा धारणा नाम ।
बहु-बहुविध-क्षिप्र-अनिःसृत-अनुक्त-ध्रुव[सेतराणामिति । यथा बहु इति बहूनां तज्जातीनां ग्रहणम् । यथा चक्षुषा बहूनां हंसानां ग्रहणम् , श्रोत्रस्य बहूनां शब्दानां ग्रहणम् , घ्राणस्य बहूनां चम्पक-कुसुमानां ग्रहणम् , रसनस्य बहूनां निम्बपत्राणां ग्रहणम् , स्पर्शनस्य बहूनामुदकबिन्दूनां ग्रहणम् , नोइन्द्रियस्य बहूनां संज्ञानां ग्रहणम् । चक्षुरादीनां यथासंख्यं बहुविधानां हंस-वलाकादीनां ग्रहणम् , बहुविधानां शब्दभेदमृगादीनां ग्रहणम् , बहुविधानां चम्पकोत्पलादीनां ग्रहणम् , बहुविधानां निम्बपत्र-कटुकरोहिण्यादीनां ग्रहणम् , बहुबिधानां उदकबिन्दु-सर्पोत्प [ झाब्जोत्पलादीनां ग्रहणम् , बहुविधानां जीवसंज्ञानां ग्रहणम् । चक्षुरादीनां यथासंख्य तेषामेवाशु ग्रहणं क्षिप्रम्, तत्सदृशदृश्यमानकेनार्थेन निःसृत-अनिःसृतानामर्थानां ग्रहणम् । यथाभ्रगर्जनं श्रुत्वा अभ्रगर्जनमेवेत्यवधारयति । एवं सर्वत्र । अनुक्तानां अकथितानां ग्रहणम् , यथाऽग्निमानयेत्युक्ते खर्परग्रहण करोति । ध्रवाणां नित्यानां ग्रहणम् । यथाऽऽका श-धर्मास्तिकायादीनां ग्रहणम् । सेतराणां नाम बहुकस्य इतरं एकस्य ग्रहणम् । यथा बहूनां हंसानां मध्ये एकहंसस्य ग्रहणम् ।
| इतर एकविधम् । बहुषु विद्यमानेषु एकस्य प्रकारस्य ग्रहणम् यथा-वीणा-मृदङ्गादिषु वीणाशब्दस्य ग्रहणम् । एवं सर्वत्र । क्षिप्रस्य इतरं [ अक्षिप्रम् ] स यथा एतेषां चिराद् ग्रहणम् , वीणादीनां चिराद् ग्रहणम् । अनिःमृतस्य इतरं निःसृतम् , यथाऽभ्रगजनवत्कुञ्जरगर्जनम् , शङ्खवदधिकं [ शङ्खवच्छुक्लं दधिकम् ], उत्पलगन्धवत्कुष्टगन्धः, द्राक्षावद्गुडः, उत्पलनालवत्सर्पस्पर्श इति ग्रहणम् । अनुक्तस्य इतरं उक्तम् । यथा खपरं गृहीत्वा अग्निमानयतीति । ध्रुवस्य इतरं अध्वम् । यथा अधूवाणां घट-पटादीनां अनित्यादीनां ग्रहणम् ।
आभिनिबोधिकज्ञानमिति-अ इति द्रव्य-पयोयः,भि इति द्रव्याभिमुखः, निरिति निश्चयबोध इति । 'बुध अवगमने' धातुः। अभिनिवोधि[धक एव आभिनिबोधिकं वा प्रयोजनं अस्येति आभिनिबोधिकम् । आभिनिबोधिकमेव ज्ञानं आभिनिबोधिकज्ञानम् । आभिनिबोधिकज्ञानस्य आवरणं आभिनिबोधिकज्ञानावरणीयं चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org