SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ यस्मादहं करोमीत्येवमिच्छति। उदाहरणे तु व्युत्पादित इच्छामात्रं वाच्यम्, तदन्तस्य च केवलस्य प्रयोगासम्भवादवश्यंभावेन भावकर्मकत्रभिधायकप्रत्ययपरता, तत्र भावाभिधायकप्रत्ययपरतायां कर्तुमिच्छा चिकीर्षेति विग्रहः कर्माभिधायकप्रत्ययपरतायां कमेषितव्यं चिकीर्तितव्यमिति कत्रभिधायकप्रत्ययपरतायां कर्त्तमिच्छति चिकीर्षतीति। ननु कटादेः कर्मणोऽविवक्षायां करोत्यर्थस्येप्यमाणता भवतु तद्विवक्षायां तु करोत्यर्थस्य तादर्थ्यन प्रवृत्तत्वादिषिक्रियायाः कटादिरेव व्याप्यो न करोत्यर्थ इति नैष दोषः। तत्रापि कटादिविशिष्टस्य करोत्यर्थस्यैवेष्यमाणता। उभयोर्वा उभयोरपीष्यमाणत्वे साक्षात्करोत्यर्थस्येष्यमाणता तद्द्वारेण कटादेः, नहि द्रव्यस्य करोत्यादिक्रियाव्यवधानमन्तरेण साक्षादिष्यमाणतोपपन्नेति। गमनेनेच्छतीति। नात्र गमिरिषेः कर्मेति समानकर्तृकत्वेऽपि सन्न भवति। भोजनमिच्छति देवदत्तस्येत्यत्र तु भुज्यर्थस्येषिकर्मत्वेऽपि भिन्नकर्तृकत्वात् सन्नभावः। भोक्तुं व्रजतीति अत्रेच्छार्थस्याभावात्तु न भवति। सति हीच्छायाः प्रत्ययार्थत्वे प्रत्यासत्त्या यो धातुरिषः कर्म इषिणैव च समानकृर्तकस्तस्मात्सन्नित्येतस्यार्थस्य लाभः, असति त्विच्छाग्रहणे यस्याः कस्याश्चिक्रियायाः कर्म यया कयाचित् क्रियया समानकर्तृको यो धातुरित्येतावानप्यर्थो लभ्यते तत्रापि सन्प्रत्यय: स्यादितीच्छाग्रहणम्। चिकीर्षितुमिच्छतीति। अतत्सन इति वाचनादन्यत्र सन्नन्तात्सन्न भवति। अत्र चूर्णिकार: किलैवमाह-अथ सन्नन्तात् सना भवितव्यम्, न भवितव्यम्, किं कारणमर्थगत्यर्थः शब्दयोगोऽर्थं प्रत्याययिष्यामीति शब्दः, प्रयुज्यते, तत्रैकेनैव च तस्यार्थस्योक्तत्वादुक्तार्थानामप्रयोगादन्यप्रयोगाभाव इति, न तीदानीमिदं भवति एषितमिच्छति एषिषिषतीति, अथास्त्यत्र विशेषः एकस्या इच्छाया अयमिषिः साधनं वर्तमानकालश्च प्रत्ययः अपरस्या बाह्य साधनं सर्वकालश्च प्रत्ययः इहापि तर्केकस्याः करोतिविशिष्ट इषिः साधनं वर्तमानकालश्च प्रत्यय: अपरस्या बाह्य साधनं सर्वकालश्च प्रत्ययः । येनैव हेतुना एतद्वाक्यं भवति चिकीर्षितुमिच्छतीति तेनैव वृत्तिरपि प्राप्नोति तस्मात् सन्नन्तात्सन: प्रतिषेधो वक्तव्यः। विवरणकारस्तु प्रतिव्यक्तिलक्षणप्रवृत्तौ वाचनिको निषेधः, आकृतिपक्षे तु सकृल्लक्षणप्रवृत्तौ तत्प्रवृत्ते: प्राक्प्रत्ययान्तप्रकृत्यसम्भवात्प्रत्ययो न भवतीति न्यायायानुवादोऽयमित्याह-तचायुक्तम्, एवं तु यङ्सनण्यन्तात्सनि बोभूयिषयिषतीत्यादिलेखस्य विरोधात्, तस्माद्, वाचनिक एव प्रतिषेधः । “गुपेः" गुप्ति|गर्हेति सन्नन्ताद् जुगुप्सितुमिच्छतीत्यनेन सन्। तद्ग्रहणादिच्छार्थसन्परिग्रहादन्यार्थसन्नन्तादप्रतिषेधः । अर्थान् प्रतीषिषतीति प्रत्येतुमिच्छतीति सन्। स्वरादेर्द्वितीय इत्येकस्वरस्य सनोद्विवचनम्। सन्यस्येत्यकारस्येत्वम्। असत्याकारे एकस्वरत्वाभावाद् द्विवचनादि न स्यादिति। अथ किमर्थो नकारो नह्यस्य प्रयोगे श्रवणमस्तीत्याह नकार इत्यादि। सन् ग्रहणेषु सन्यङश्चेत्यादौ विशेषणार्थो नकारः। कथमिति इच्छायां सन्विधीयते; इच्छा च नाम मोहनीयकर्मविशेषोदयापादित आत्मपरिणामो बाह्याभ्यन्तरपरिग्रहाभिलाषरूपः, यदि वा प्रवृत्तिनिमित्तं भावोऽभिप्रायो मन:समीक्षामात्रं तदुभयमपि चैतन्यविकारो न कूलादावस्ति, नहि कूलादिषु बुद्धिपूर्विका प्रवृत्तिरस्ति। न च शुनो मर्तुमिच्छास्ति, प्रियत्वाज्जीवितस्य, तत्कथं सन् प्रत्ययो, येन नदीकूलं पिपतिषतीत्यादि प्रयोग इत्याशङ्कार्थः, परिहरति पतितुमिच्छतीति वाक्यवद् भविष्यति अयमों लोकव्यवहारनिबन्धनामचेतनस्यापीच्छामाश्रित्य नदीकूलं पिपतिषतीत्यादयः प्रयोगाः साधुत्वेनावस्थाप्यन्ते। तथा च नदीकूलं शीर्यमाणलोष्ठं जायमानभिदाकं श्वानं च शूनाक्षमेकान्तावस्थानशीलमुपलभ्य तत्रेच्छाध्यारोपात्पतितुमिच्छतीत्यादि वाक्यं लोकाः प्रयुञ्जन्ते तद्वत्सन्प्रत्ययोऽपि भविष्यतीति। परमार्थतस्त्विच्छा भवतु मा वाऽभूल्लोकप्रतिपत्तिमाश्रित्य व्यवहारः प्रवर्तते। यदुक्तम्-"यचात्र भ्रमजं ज्ञानं, यच्च ज्ञानमलौकिकम्। न ताभ्यां व्यवहारोऽस्ति लोकाः शब्दनिबन्धनाः ।।१।। इति। अन्ये तु कूलं पिपतिषतीतिवत् श्वा मुमूर्षतीतिति च किलेवार्थगर्भा प्रतिपत्तिमाहुस्तच्च न युक्तम्। यद्भाष्यम्। न वै तिङन्द्रेनोपमानमस्ति। अयमर्थ:तिङन्तार्थेनोपमानं न विद्यते क्रियायाः साध्यैकस्वभावत्वादनिष्पन्नस्वरूपत्वादिदं तदिति सर्वनामपरामर्शविषयवस्तुगोचरत्वादुपमानोपमेयभावस्य अत्रेदं तदिति परामर्शाभावादिति भावः। अथवा सर्वं चेतनावत्। तथा च वेदोऽपि सर्वभावानां चैतन्यं प्रतिपादयति। स ह्येवमाह-कंसकाः सर्पन्ति शिरीषोऽधः स्वपिति, सुवर्चला आदित्यमनुपर्येति आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति। अयस्कान्तमयः संक्रामति। ऋषिः पठति शृणीत ग्रावाणः इति। वैचित्र्येण च सर्वपदार्थानामुपलम्भात् सर्वचेतनप्रसङ्ग सर्वत्र नोद्भावनीय इति। अत्र चात्माद्वैतदर्शने दोषाभावः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy