SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रधानं पाचक इति द्रव्यप्रधानम्। तस्मादिदमत्र वक्तव्यं करोति कश्चित् कुर्वन्तमन्यः प्रयुक्त इत्येतावतैव लघुना णिदर्थे प्रदर्शिते कैमर्थक्येन गुरुपञ्चम्याधिकं वाक्यं प्रदर्श्यत इति। अनयोरुदाहरणयोरत्रेत्यादिना यथा यथा प्रयोक्तृत्वं तथा दर्शयति। वासयतीति भिक्षेति क्तेट इत्यदन्तः। अध्यापयतीति। अधि पूर्वादिङो णिगि "क्रीजीङ" इत्यात्वम्। अर्तीति पोऽन्तः । अनयोः प्रयोक्तृत्वमाह-अत्र निमित्तभावेनेति, तत्र निमित्तभावः प्रयोज्यसम्पाद्यस्य व्यापारस्यातुच्छलानां वस्तूनां सम्पादनं तचाचेतनेनापि भैक्षादिना सम्पाद्यमानं दृश्यते भिक्षा हि प्रचुरा व्यञ्जनवती लभ्यमाना वासस्यातुलानि तृप्त्यादीनि सम्पादयन्ती निमित्तभावात् प्रयोक्तृत्त्वमापद्यते। तथा कारीषोऽपि एकान्ते निर्वातप्रज्वलितोऽध्ययनस्य विरोधकं शीतं निवारयन् सुखस्पर्शञ्च सम्पादयंस्तथैव प्रयोजको भवति। नहि अवश्यं स एव वासं प्रयोजयति य आहोष्यतामिति किन्तु तूष्णीमप्यासीनो यस्तदतुच्छलेषु निमित्तत्वमुपयाति सोऽपि वासं प्रयोजयति। ननु किं भो वर्तमानकालाया एव क्रियायाः कर्ता भवितव्यं न भूतभविष्यत्कालायाः। नैव दोषः भूतभविष्यत्कालायामपि अभिसम्बन्धात्का भवितव्यम्। भूताया भविष्यन्त्याश्च क्रियायाः कभिसम्बन्धो भूतो भावी च प्रतिपाद्यत इमां क्रियामकार्षीत् करिष्यतीति। राजान मागच्छन्तं प्रयुङ्क्ते राजानमागमयतीति। अथात्र राजागमनस्यान्यतो निमित्ताद्भावादाख्यातुरप्रयोजकत्वाद् णिग्न प्राप्नोतीति तत्र णिग्वक्तव्यः । तथा यदारण्यस्थो रममाणान् मृगान् प्रतिपाद्यमाचष्टे। एतस्मिन्नवकाश एव मृगा रमन्त इति तदास्य प्रतिपाद्यदर्शनार्थी प्रवृत्तिर्भवति तस्याञ्च णिग् वक्तव्यः। यदा तु ग्रामे मृगरमणमाचष्टे तदा न भवति ग्रामे मृगाणामसम्भवान तद्दर्शनार्था प्रवत्तिः । मृगरमणादिविषयमेवैतद् द्रष्टव्यम्। राजागमनादिषु तु दृश्यर्थप्रवृत्त्यभावेऽपि णिग् भवति। तथा रात्रिं विवासयतीति यावद्रात्रेर्विवासोऽतिक्रमणं तावत्कथयतीति कालात्यन्तसंयोगेऽपि वक्तव्यः। आख्यातुरपि प्रयोक्तृत्वात् सामान्यलक्षणेनैव सिद्धत्वादित्याह-अत्राख्यानेनेति प्रयोक्तृत्वमितिशेषः। तदेव प्रयोक्तृत्वं दर्शयति-आख्यानेन हीत्यादि बुद्धिषु श्रोतृणां चित्तेषु रूढाः सत्तामापत्राः प्रयुक्ताः प्रवर्तिताः प्रतीयन्ते। राजादीनां ह्युभयत्र भावो बहिरन्तश्च तत्राख्यात्रा बहिर्भावस्य कर्तुमशक्यत्वेऽपि अन्तर्भावस्य सुशक्यत्वाद् बहिष्प्रयोगाभावेऽपि अन्तःप्रयोगात्प्रयोक्तृत्वमिति। अयमर्थः यो न्याय्यो मुक्तसंशयः पाचयत्योदनं चैत्रो मैत्रेणेति स यथा तां क्रियां कुर्वन् प्रयोक्तृत्वेन प्रतीयमानः प्रयोक्तेति गृह्यते तथा मुक्तसंशयप्रयोजकवत्कथकोऽपि कथां कथयन् प्रयोक्तृत्वेन परेषां प्रतीतिमुत्पादयन् युक्तः प्रयोक्तेति ग्रहीतमिति। एवं कंसं घ्नतं प्रयुङ्क्ते कंसं घातयतीत्यभिनयादिना नटादेः प्रयोवतृत्वाविरोधः। यत्र शब्दप्रतिपाद्योऽर्थस्तत्रापि प्रयोक्तृत्वमस्त्ययं नट: कौशलात्तथा सरसमभिनयति येन कंसवधाय बलिबन्धनाय वा प्रवृत्तमेव नारायणं प्रयुत इति परेषां प्रतीतिर्भवतीति, नन्वस्य स्वतन्त्रस्य प्रयोजकः प्रयोक्ता भवति तत्कथं माहिष्मत्यां सूर्यमुद्गमयतीत्यत्र णिग्। नह्यसौ सूर्य प्रयोजयतीति उच्यते। यं हि भवान् स्वतन्त्रस्य प्रयोजकं मुक्तसंशयं मन्यते। पाचयत्योदनं चैत्रो मैत्रणेत्येतदपि एतेन तुल्यम्। मैत्रे सूर्ये चोभयत्रापि किञ्चिदनपेक्षयैव प्रवृत्तेर्भावात्। नेह कश्चित् परोऽनुग्रहीतव्य इति प्रवर्त्तते सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते येऽपि गुरुशुश्रूषवस्तेऽपि स्वभूत्यर्थं प्रवर्तन्ते पारलोकिकश्च नो भविष्यति इह च नः प्रीतो गुरुरध्यापयिष्यतीति ये चाप्येते कर्मकरा नाम तेऽपि स्वभूत्यर्थमेव प्रवर्त्तन्ते भक्तं चेलञ्च लप्स्यामहे परिभवाश्च दण्डादिका न नो भविष्यन्ति। तथा येऽपि शिल्पनो नाम तेऽपि स्वभूत्यर्थं प्रवर्त्तन्ते वेतनं लप्स्यामहे मित्राणि नो भविष्यन्तीति। एवमेतेषु स्वभूत्यर्थं प्रवर्त्तमानेषु यदि कश्चित्कुर्वतः प्रयोजको भवति तेनैतदपि तुल्यम्। यद्येवं कः प्रयोज्यार्थः, अत्र भाष्यम्, यदभिप्रायेषु सज्जन्त इति ईदृश्यौ बध्यौ कुरु ईदृशौ पुटको कुर्विति सूर्यश्चाप्यस्याभिप्राये सज्जति। एष तस्याभिप्रायः शकुनाय सूर्योद्गमनं सम्भावयन्तं वास्याभिप्रायं निवर्तयति। तदुक्तं हरिणा-"निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतयः"। अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये।।१।।" इति नन्वस्त्वत्र णिग् कंसं घ्नन्तं प्रयङ्ग इति त वर्तमानकालता कथं कंसादीनां चिरहतत्वाच्चिरवृत्तो हि वध्यघातक भाव इति प्रयोजकव्यापारस्य वर्तमानत्वासम्भवादिति उच्यते। अत्रापि युक्ता वर्तमानता कथं ये तावत्कंसाद्यनुकारिणां नटानां व्याख्यानोपाध्यायाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy