________________
श्रीमञ्जिनपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपति
भट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज-विजयनेमिसूरीश्वर
चरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो
धातुरत्नाकरः
नत्वा श्रीनेमिनामान-माजन्मब्रह्मचारिणम्, तीर्थनाथं गुरुं चैव भारती जिनभाषिताम्॥१॥ धातुरत्नाकरस्याहं लावण्यविजयो मुनिः,
भागं द्वितीयमातन्वे बालानां सुखहेतवे।।२॥ पूर्वं पदस्य साक्षात्प्रकृतिरुदाहतो गणाष्टकं यावत्तदनु नवमे मिश्रितः। केवलपरम्पराप्रकृतिस्त्वधुनोदाहियते। प्रयोक्तृव्यापारे णिग्। कर्तारं यः प्रयुङ्क्ते स प्रयोक्ता तद्व्यापारेऽभिधेये धातोर्णिग् वा भवति। व्यापारश्च प्रेषणाध्येणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैरनेकधा। तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम्। सत्कारपूर्वकस्त्वध्येषणम्। भवन्तं प्रयुक्ते भावयति भावयते। कुर्वन्तं प्रयुङ्क्ते कारयति कारयते। अत्र प्रेषणोनाध्येषणेन वा यथासम्भवं प्रयोक्तृत्वम्। वासयति भिक्षा। अत्र निमित्तभावेन। राजानमागच्छन्तं प्रयुङ्क्ते राजानमागमयति। अत्राख्यानेन। आख्यानेनहि बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते। कंसं घ्नन्तं प्रयुङ्क्ते कंसं घातयति नटः। अत्राभिनयनेन। पुण्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम्। अत्र कालज्ञानेन। उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति। अत्र प्राप्त्या। ननु कर्ताऽपि करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिगस्त्विति चेत्र प्रयोक्तृग्रहणसामर्थ्यात्तथाक्रियां कुर्वन्नेव कर्ताऽभिधीयते ते तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मां भवानित्यत्र णिग् न। पञ्चम्या बाधितत्वाद्वा। वाधिकार आबहुलवचनात्पक्षे वाक्यार्थः । णिगि भवन्तं प्रयुङ्क्ते भावयति करोतीत्यर्थः । यदाहुः
नित्यं न भवनं यस्य यस्य वा नित्यभूतता। न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव॥१॥ तेन भूतिषु कर्तृव्यं प्रतिपन्नस्य वस्तुनः।
प्रयोजकक्रियामाहु-र्भावनां भावनाविदः।।२।। इति भावयेज्ज्योतिरान्तरमित्यनेकार्थत्वाद् ध्यायेदित्यर्थः।। __ प्रयुक्त इति प्रयोक्ता प्रयोजकः, प्रयुज्यमानश्च क्रियाया योग्यो निर्वर्तको वा स च कर्तृवं नातिक्रामतीति सामर्थ्यात्कर्तुर्व्यापारयिता प्रयोक्तेत्याह-करिमित्यादि। इदमिदानी विचार्यते किं प्रयोक्तृव्यापारग्रहणं प्रकृव्यर्थस्य विशेषणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org