________________
रसरत्नसमुच्चयम्
संलिप्य उत्तरवारणी निर्यासाभ्यां सहितं स्थालीमध्ये अधोमुखसरावकेरण निरुध्य उपरि भस्मना पूरयित्वा स्थालीमुखं पिधाय चूल्हके चटाप्य प्रहर ४ मंदाग्निना तापः कार्यः । एतावता मृतं ताम्रम् ।
अथ अर्करसपुट २, निम्बुकपुट ७, आम्लवेतसु ७, प्रादा ७, चित्रा ७, भांगरा ७ एवं पुट ४२, परं सगन्धकानि देयानि । तदनु पंचामृतपुट ७, पुनः प्रदा पुट १ एवं पुट ५० इति ताम्रभैरवः ।
सन्निपाते रस रती १, द्विगुरणकर्पूरेरण, क्षये रस रती २ मृताभ्रकेण त्रिगुणेन, कासे स्वासे च त्रि [तृ] कटुना वा० २, विशूच्यां सुंठि
वा० ८ ।।
प्रथापरः
चिचाश्विभिः धूर्तपयस्विनीनां मूलेषु पंचांग निगुण्डिकायाम्ः । वज्रार्कदुग्धे क्रमतस्त्रिवारा- न्निषेवितं शुद्धिति (शुद्ध्यति ) ताम्रपत्रम् ।। १०॥ सकांजिकेन द्विगुणेन पंच कृत्वा सुगंधेन कृतोपलेपम् ।
छाया विशुष्कं पुटपाकपक्वं, पंचत्वमप्यंचति शुभ्रतां च ।। ११ ।।
1
पुटानि पंचामृतजानि पंच, फलत्रयस्य त्रिपुटान्यव्याप्य । सिद्धं सुधासूतमिदं त्रिदोष-ज्वरादि रोगापहमादिशति ||१२||
Jain Education International
३७
अथ ज्वरारिः सामुद्रोदरभांडकांतरगतमूषातदंत स्थितः 1 सूतो रामठमूषिकाधृततनुर्भाण्डेन नीरंघ्रितः ॥
तप्तो यामचतुष्टयं हुतभुजः कीलाभिरूर्ध्वस्थितः । सिद्धो गोलकवत्सनागसहितः सोऽयं ज्वरारी रसः ।।१३।।
For Private & Personal Use Only
www.jainelibrary.org