________________
३४
रसरत्नसमुच्चयम्
रसः पारदः, अभ्र=कृष्णाभ्र, कष्णा= पिप्पली, कृमिशत्रु विडंग, गंधो गंधकः, नेपालो गोलक, दंतो=निकुंभा, नृवृता=निसोत्र, अमृतं वत्सनाग, अहिवल्ली= नागवल्ली ।छ। रसाभ्रगंधत्रितयात् तृतीयो, नेपालदंतीतिविषे विचूर्ण्य । तांबुलीपत्ररथ तन्निबध्य षडंगुले क्ष(१खा) णिपुटे निधेयम् ।।३३।। पत्राणि तान्यूर्ध्वमधश्च दत्त्वाऽऽरण्योत्पलैरूलपुटेन तप्तः । मंदाग्नि तुंदग्रहणी त्रिदोष-शूलेषु चिंतामणिरेष शस्तः ।।३४।।
पादकेन गुटी वा० १ दातव्या ।
अथ कनकवजनामा रसः
रम-गंधक-ताम्राणि तुल्यानि द्विगुणं विषम् । द्वात्रिंशदंशकलिते हेमवज्रो त्रिचूर्ण्य च ।।३५।। लशुनत्रिफला गपूरजंबीरजैः रसैः । सप्ताहं मर्दितः कल्को मूषास्थश्चुल्लिका हितम् ।।३६।। सिद्धिमायाति सप्ताहात् रसः कनकवज्रभृत् । गंजामात्रोऽप्ययं दत्तः सर्वरोगवियोगदः ।।३७॥
छन्दभैरवनामा रसः ।
ज्योतिष्मतीरसापिष्टो द्विभागामोदसैंधवः । पुटोत्तीर्णो रसः सर्वहितः स्याच्छंदभैरवः ।।३८।। हेमाश्रितो हरति रोगगणानशेषान्, गंधेन मूर्च्छिततनुः कफजान् विकारान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org