________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[७५ः
[उदधिमलङ्घनीयं दृष्ट्वा गतागतं च मारुततनयम् ।
मोहान्धकारितेष्वपि गूढो भ्रमति हृदयेष्वेषामुत्साहः ॥] अलङ्घय समुद्रं लवयित्वा गतमागतं च मारुततनयं दृष्ट्वा तत्र स्थिताना-- मेषां वानराणां हृदयेषूत्साहो गूढः सन्गुप्तो भ्रमति । अस्मज्जातीयेन हनूमता लङ्घितोऽयमिति हनूमद्दर्शनादुत्साह उद्भवति अस्माभिर्न लध्यत इति लज्जया न बहिर्भवतीति गूढभ्रमणपदयोस्तात्पर्यम् । भ्रमणबीजमुत्प्रेक्षते-कीदृशेषु । समुद्रं दृष्ट्वाऽज्ञानं मोहस्तद्रूपान्धकारविशिष्टेषु । तथा च मोहच्छन्नत्वादुत्साहो न प्रकाशित इति भावः । अन्योऽप्यन्ध कारे पतन्भ्राम्यतीति ध्वनिः । 'मूढः' इति पाठे जडीभूत' इत्यर्थः ॥४४॥
विमला-(समुद्र को लांघ कर ) गये आये हनुमान को देख कर ( उद्भूत ) वानरों का उत्साह, समुद्र को अलङ्घय देखकर (लज्जा से बाहर प्रकट न होकर ) उनके मोहान्धकार से आच्छन्न हृदय में छिपा-छिपा ही घुमड़ता रह गया ॥४४॥ अथ कपीनां जडीभावमाह
तो ताण हाच्छाअं णिच्चललोअणसिहं पउत्थपआवम् । मालेक्खपईवाण व णि अअं पइइचडुलत्तणं पि विअलिअम् ॥४५॥ [ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् ।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥] ततस्तेषां वानराणां निजकं स्वाभाविकं प्रकृतीनामाकृतीनाम् । शरीराणामिति यावत् । चटुलत्वमपि विगलितम् । अप्रतिमया व्यवसायो गत एव शरीरचाञ्चल्यमपि न स्थितमित्यर्थः । एवं हता छाया कान्तिर्यत्र तत् । निश्चला लोचनरूपा शिखा यत्र तत् । कपिलोचनानामग्निशिखाकारत्वान्निश्चलदृष्ट्यग्रमिति वा। प्रोषितो नष्टः प्रतापस्तेजो यत्र तद्यथा स्यात्तथेति क्रियाविशेषणत्रयम् । तथा च तेषां देहकान्तिनयनचाञ्चल्यप्रतापानां चाञ्चल्यरूपस्वभावस्य चापगमः समकालमेव वृत्त इति तात्पर्यम् । केषामिव । आलेख्यानां प्रदीपानामिव । यथा चित्रलिखितानां दीपानां दीपस्वभावसिद्धमपि चाञ्चल्यं न तिष्ठति । तत्रापि कान्तिर्हता भवति । लोचनं ज्ञानम् । तथा च चञ्चलत्वज्ञानशून्या शिखा भवति । लिखितशिखाया निश्चलत्वात् । प्रतापश्च प्रोषितः स्वत एव निस्तेजस्त्वात्, तथा च वानराः प्रकृत्या चञ्चला अपि मोहादप्रतिभया च समुद्रं दृष्ट्वा निश्चला बभूवुरित्यर्थः । प्रकृतिशब्दः स्वभावार्थो वा । तेन चटुलत्वं स्वभाव इत्यर्थः ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org