________________
सेतुबन्धम्
1
भुजनिर्वालितकृष्टखण्डितै कै कविसरत्प्रवृद्धशिरसम् निष्फल सीतासंहितनखोत्खण्डितहृदयं करोमि दशमुखम् ॥ ]
( अन्त्य कुलकम् )
`६२० ]
अहमपि दशमुखमीदृशं करोमीति चतुर्थस्कन्धकेनान्वयादन्त्य कुलकम् । कीदृशम् । विद्युत्पतनादप्यतिरिक्त नालक्ष्यत्वादिनोत्कटेन संपातेनोत्फालेन गृहीतमा च्छिन्नं प्रवृद्धं महद्धनुर्यस्य तम् । प्रथममुत्प्लुत्य तद्धनुर्ग्रहीष्यामीत्यर्थः । अथ रावणेनेत्यर्थात् । अर्धभावतया मदुपर्यवपातितयाथ तदैव मयासादितया करेण धृतया तदनु वलितादामोटय वक्रीकृताद्रावणस्य भुजादाक्षिप्तयातिक्रम्य गृहीतया पश्चान्मोटितया भग्नया गदया विह्वलम् । धनुर्ग्रहणानन्तरं तेन मदुपरि गदा क्षेप्तव्या, सापि मयान्तरिक्ष एवातिक्रम्य ग्रहीतव्या, ततोऽस्त्राभावाद्वयाकुल एव स्यादित्यर्थः । पुनः किंभूतम् । अर्थान्ममैव । स्कन्धस्यार्धान्तेऽपवाहितः पातितः सन् मयैव करयुगले नाव रुग्णे गृहीत्वा भग्नश्चन्द्रहासनामा खड्गो ग्रस्य तम् । गदाभङ्गानन्तरं तेन मयि खड्गः पातनीयः सोऽपि मया भञ्जनीय इत्यर्थः । एवम् अर्थान्मयैव | आक्रान्तादधिष्ठितादथ चरणैस्ताडितादत एव दलितात्स्फुटितात्तस्यैव रथादधोमुखं सदपसरद्भूमौ पतत् प्रहरणमस्त्रसमुदायो यस्य तम् । तस्य खड्गादिशून्यतायां सत्यामुत्प्लुत्य मया यदाहत्या तद्रथो भञ्जनीयः, तदनु ततोऽप्यस्त्राणि पतिष्यन्ती· त्यर्थः । एवम् - मयैव । तस्येत्यर्थात् । भग्नाः पुरोगामिनः पुरोवर्तिनः । अर्थाद्दश । हस्तैर्विष्ठुलो विकलः सन्ममैव भुजयुगलेनोत्खण्डिताः शेषाः पश्चाद्वर्तिनो निष्फलाः कार्याजनकत्वाद्दश बाहवो यस्य तम् । अथ विरथस्य तस्य पुरः पुरोवर्तनो दश, पश्चात्पश्वाद्वर्तिनोऽपि दश एवं विंशतिरपि बाहवो मया भुजाभ्यामुत्पाटनीया इत्यर्थः । यद्वा - मयैव प्रथमं भग्नमत एव पुरोवर्ति सत्, विसंष्ठुलं यद्भुजयुगलं तेनैव हेतुना तत्प्रतिबद्धत्वेनोत्खण्डितास्त्रुटिताः शेषा निष्फला बाहवो यस्य तम् । मुख्यबाहुद्वयभञ्जनात्तदन्विताः परेऽप्यष्टादश भञ्जिताः स्युरित्यर्थः । एवम् वज्रनिभस्य हस्तस्य निपतन्सन्दत्तोऽर्पितो यो दृढो मुष्टिस्तेन भिन्नो वक्षसोऽर्धान्तो यस्य । तथा च बाहुभङ्गानन्तरं मुष्ट्या तस्य वक्षो विदारयिष्यामीत्यर्थः । एवम्—भुजाभ्यां निर्वालितानि धृत्वा पृथक्कृतानि तदनु आकृ- [ष्टान्याकृ]ष्टानि पश्चात्खण्डितानि सन्ति एकैकं प्रत्येकं विसरन्ति भूमौ पतन्ति प्रवृद्धान्युपचितानि शिरांसि यस्य तम् । वक्षोविदारणानन्तरं प्रत्येकं तस्य मस्तकानि विच्छिद्य विच्छिद्य भूमौ पातयिष्यामीत्यर्थः । अथ कार्यानिष्पत्त्या निष्फलं यथा स्यादेवं सीताविषये संहितमासञ्जितमत एव नखैरुत्खण्डितमभ्यन्तरादप्युत्खातं हृदयं यस्य तथाभूतम् । शिरः खण्डनानन्तरं सीतायामासक्त्यपराधात्तदन्तः स्थितमपि तन्मनो रुखाय बहिः करिष्यामीत्यर्थः ॥ ५४ ॥
विमला - मैं ( सुग्रीव) भी रावण को ऐसा कर दूं कि सब से पहिले विद्युद्वेग से
Jain Education International
1
| चतुर्दश
For Private & Personal Use Only
www.jainelibrary.org