________________
५०८]
सेतुबन्धम्
[ द्वादश
ङ्गेन वा स्खलितापगता शेषेणैकदेशेन संस्थिता रसना मत्र । शेषसंस्थिता अपि रसना अतिरागेण स्खलिता इत्यर्थः। प्रदोषरते लज्जासत्त्वेनोत्कण्ठावशादल्पकालव्याप्त्या च तथाविधोपमर्दाभावादसनादिकं शेषावच्छेदेन स्थितमेव, द्वितीयरते तु विश्रम्भापगतलज्जत्वेनाधिक समयव्याप्त्या च बहुविधोपमर्दाच्छेषावच्छेदेनापि न स्थितमिति रसनारूपोऽप्यन्तरायः सुरते न स्थित इति भाव इति वयम् । सांप्रदायिकास्तु-अतिरागेण स्खलिता अपि रसना शेषेण संस्थितां यत्रेत्यर्थमाहुः । 'वसणम्' इति पाठे शेषेणाञ्चलादिनेत्यर्थः । तथा च-प्रथमरते लज्जासत्त्वादङ्गावरणार्थमञ्चलादीनां भूयो भूयः समर्पणादेकदेशेन वसनं स्थितमेव । द्वितीयरते त्वतिरागेण तदपि स्वलितम् । अन्यत्पूर्ववद्वयाख्येयम् । एवं च विगलितमदत्वेन हेतुना निपुणं चतुरं ज्ञानपूर्वकतयालिङ्गनचुम्बनादिव्यापारवैशिष्ट्यविशिष्टमित्यर्थः । प्रथमरते तु मदसत्त्वेन रसविशेषमग्नचित्ततया तादृशनैपुण्याभावादिति भावः । 'दूरन्तरिअम्' इति पाठे प्रत्यूषरतं प्रदोषरतापेक्षया दूरान्तरितम् । चिरकालेन जातमित्यर्थः । विगलितमदेन निपुणं सलज्जम् । प्रथमं मदाधिक्याल्लज्जा नासीदित्यपि केचित् । अचिराच्चेति सं[त्युप]स्कृत्य प्रदोषरतानन्तरमचिरादेवोत्कण्ठया प्रत्यूषरतं जातमित्यर्थः । तेन प्रथमरतस्य चिरकालव्यापकत्वमित्यन्ये ।। १३॥
विमला-(प्रदोषकालीन सुरत प्राथमिक, अतएव रसनीय होने के कारण मनाघनीय होता ही है किन्तु ) प्रत्यूषकालीन सुरत प्रदोषकालीन से भी अधिक रसनीय एवं श्लाघनीय रहा, क्योंकि इसमें-विश्रम्भ ( घनिष्ठता ) के कारण ( लज्जा न होने से ) रस बढ़ जाता है ( जबकि प्रदोषकालीन में लज्जा की 'विद्यमानता से वह बात नहीं आ पाती है ) तथा प्रत्यूषरत में अत्यन्त आसक्ति के कारण शेषसंस्थित रसना भी हट कर दूर हो जाती है ( जबकि प्रदोषरत में लज्जा की विद्यमानता से वैसा उपमर्दन नहीं हो पाता, अतएव रसना अपने स्थान पर कुछ न कुछ स्थित रह कर सुरत में व्यवधान डालती है ) ॥१३॥ चषकमाहसंकन्ताहरराअं
थोप्रसुरासंठिउप्पलद्धत्थइमम् । चस कामिणिमुक्कं किलिन्तवउलतणुओ ण मुञ्चइ गन्धो ॥१४॥ [संक्रान्ताधररागं स्तोकसुरासंस्थितोत्पलार्धस्थगितम् ।
चषकं कामिनीमुक्तं क्लाम्यद्बकुलतनुको न मुञ्चति गन्धः ॥] कामिनीभिर्मुक्तं त्यक्तमपि चषकं क्लाम्यन्म्लायद्यद्बकुलपुष्पं तद्गन्धवत्तनुकः स्वल्पो गन्धो न मुञ्चति । ईषत्सुरागन्धस्तिष्ठत्येवेत्यर्थः। कीदृशम् । संक्रान्तः पानसमये लग्नोऽधरस्य रागस्ताम्बूलादिकृतो यत्र । एवम्-स्तोकसुरायां संस्थिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org