________________
२६ ]
सेतुबन्धम्
[ प्रथम
पवनमाह
पज्जत्तकमलगन्धो महुतण्णाओसरन्तणवकुमुअरओ। भभिरभमरोअइव्वो संचरइ सदाणसीरो वणवाओ ।।३१।। [ पर्याप्तकमलगन्धो मध्वार्दापसरन्नवकुमुदरजाः ।
भ्रमभ्रमरोपजीव्यः संचरति सदानशीकरो वनवातः ॥]
दानशीकरसहितो वनपवनः संचरति । करिणामुत्सर्गतः शरदि मदोद्भद इति प्रसिद्धि : । कीदृक् । चिरनिरुद्धस्यैकत्र संचितस्याकस्मिकबहिर्भावे बाहुल्यात्पर्याप्तः परिपूर्णः कमलगन्धो यत्र । एवं विकासप्रकर्षण मधुप्रकर्षादा सदपसरत्पवनसंबन्धादधःस्खलन्नवं कुमुदरजो यत्र । तथा च वायोरुषःकालीनत्वात्कमलकुमुदयोर्मुकुलरूपयोर्गन्धस्य रजसश्च संबन्ध इति भावः । पुनः कीदृक् । कमलकुमुदमदगजादिजिज्ञासया भ्रमणशीलानां भ्रमराणामुपजीव्यो गन्धरजोमदलोभात्सेव्यः । कमलकुमुदमदसंबन्धात्सौरभम् । मधुमदवनस रःसंबन्धाच्छैत्यम् । सामयिकत्वाच्च मान्द्यम् । एवं संध्याकालीनत्वेऽपि ।'तण्णापसरन्त' इति पाठे आर्द्रप्रसरदित्यर्थः ॥३१॥
विमला-पर्याप्त कमलगन्ध से संश्लिाट, मधुप्रकर्ष से आई एवं विकीणं कुमुदरजों से युक्त तथा { गजों के) मदसीकरों से संसिक्त अतएव भ्रमणशील भ्रमरों से सेव्य (त्रिविध ) वनवायु बह रहा है । ३१ ।। पुनर्नलिनीमाह
कण्टइप्रणमिश्रजी थोप्रत्थोप्रोसरन्तमुद्धसहावा । रइपरचुम्बिज्जन्तं ण णि प्रत्तेइ पलिणी मुहं वित्र कमलम् ॥३२॥ [ कण्ट कितगोपिताङ्गी स्तोकस्तोकापसरन्मुग्धस्वभावा। रविकरचुम्ब्यमानं न निवर्तयति नलिनी मुखमिव कमलम् ॥]
नलिनी कमलं न निवर्तयत्यूर्वं प्रापयति । प्रकाशयतीति यावत् । कीदृशम् । रविकरेण चुम्ब्यमानं संबध्यमानम् । प्रभातवशात् । नलिनी कीदशी। कण्टकितं जातकण्टकं गोपितं जलान्तःस्थापितमङ्गं नालो यया । जलस्य किंचिन्न्यूनतया नालं पयसि नभसि कमल मिति भावः । पुनः कीदृशी। स्तोकस्तोकमीषदीषदपसरन्मुग्धस्वभावः कलिकाभावो यस्याः । क्रमेण विकासादिति भावः । उत्प्रेक्षते-मुखमिव । यथा पद्मिनी नायिका रतिक रो नायकस्तेन चुम्ब्यमानं, रविणः संगमकाले कृतशब्दविशेषस्य नायकस्य करेण चुम्ब्यमानं वा मुखं न निवर्तयति किं तु संमुखमेव स्थापयति तथेयमपीत्यर्थः । सापि कीदृशी। कण्टकितं रोमाञ्चितं भावोदयात्, अथ च गोपितं लज्जया सिचयाञ्चलेनावृतमहं हृदयादि यया। एवं स्तोकस्तोकं क्रमेणापस रन्मुग्धस्वभावो बाल्यं लज्जा वा यस्यास्तथाभूता। यथा यथा नायकविस्रम्भस्तथा तथा लज्जाविगम इति भावः ॥३२॥
Jain Education International
For private & Personal Use Only
www.jainelibrary.org