________________
२४ ]
सेतुबन्धम्
[प्रथम
क्तमिवेत्यर्थः । घनो मेघस्तदवरोधविमुक्ता ये दिनकरस्य करास्तै राश्लिष्टं स्पृष्टम् । अन्योऽपि निद्राणः केनचिद्रुतेन शब्देन दत्ता संज्ञा अमुक, जागृहीत्यादिरूपा यस्मै तथाभूतः करतलपरामृश्यमानश्च तत्स्पर्शसुखं लब्ध्वा जागति । जले जाड्ये निहिता नाला नाड्यो यस्य तादृशो भवति । निद्रया जडीकृतकलेवरत्वादित्यभिप्रायः ।।। ___ अत्र केचित्---'अन्योऽपि दुर्गतो धनरोधविमुक्तो दैन्यकरः करस्पृष्टश्चेति धनरोधविमुक्तदिनकरकराश्लिष्ट: सन् करो राजग्राह्यद्रम्मादिस्तत्पृष्टस्तदुत्तरं जडेन मूर्खेण निहितो नालो बन्धनरज्जुर्यस्मिन्नित्थंभूतश्च दैन्यं त्यागार्थ क्लैव्यं तत्करश्च मूर्खनिहितबन्धनदायेन मूच्छितत्वाद्धनावरोधाद्विमुक्तो भवति प्राणपीडाशङ्कया त्यज्यते । तदवस्थायां भ्रमरेण निजभृत्यप्रेषितदूतेन जिज्ञासुतया दत्तसंज्ञः संज्ञया किंचिद्वोध्यमानः प्रतिबुध्यतेऽवगच्छति' इति ध्वन्यर्थमाहुः ।।
अपरे तु-'भ्रमरेण विदग्धमित्रेण रुतेन दत्तसंज्ञो निशि निरुद्ध एव प्रभाते त्यक्तनिरोधो दिने संचारीति दिनचरः कराश्लिष्टः प्रतिबुध्यते' इति व्याचक्षते ।।२८।।
विमला-जल में नाल को निहित कर ( सुप्त ) कमल, (प्रातः कुमुदवन के मुद्रित हो जाने पर कमलमधु की तृष्णा से) भ्रमरों के द्वारा किये गये गुजार से ( जागने की) प्रेरणा पाकर तथा सूर्य के करों (१-किरण, २-करतल) से परामृष्ट होकर जाग उठा-विकसित हो गया ।। २८ ।। हंसध्वनिमाह
मम्महधणुणिग्घोसो कमलवणक्खलिअलच्छिणे उरसहो । सुध्वइ कलहंसरओ महुअरिवाहित्तलिणिपडिसलाओ ॥२६॥ [ मन्मथधनुर्निर्घोषः कमलवनस्खलितलक्ष्मीनूपुरशब्दः ।
श्रूयते कलहंसरवो मधुकरीव्याहृतनलिनीप्रतिसंलापः ॥] कलहंसानां रवः श्रूयते । नक्तमित्यर्थात् । कलो हंसरव इति वा । कीदृक् । मन्मथधनुषो निर्घोषष्टांकारः। मादकत्वात् । ज्योत्स्नाधवलायां रजन्यां विश्वमेव जेतव्य मिति धनुषष्टांकारः । एवं कमलवनात्स्खलिताया लक्ष्म्या नूपरनादः । तथा च रात्रौ संकुचत्कमलवनमुपद्रुतं परित्यजन्त्या हठात्संचारः स्खलने बीजम् । तथा निमीलनरूपविपद्दशायां मधुकरीभिाहताया नलिनि, क्वासि किं करोषीत्येवं पृष्टाया नलिन्या इहास्मि संनिहिता भवत इत्येवंरूपः प्रतिसंलापः प्रत्युत्तरम् । लोकेऽप्येको विपद्ग्रस्तं वादयति स पुनः प्रत्युत्तरयतीति ।।
दिवातनध्वनिपक्षे तु व्याख्या-कीदक्कलहंसरवः । मदनधनुर्वनिस्तथाभूतलक्ष्मीनपुरशब्दश्च । अत्र पक्षे कमलमुन्निद्रमुद्वीक्ष्य निजावासग्रहणायोल्लासेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org