________________
नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम्
[३७६ [ नभस्तलमिव ग्रहशोभितं सविमानकं
शिखररुद्धक्षयमारुतरभसविमानदम् । रत्नशिखरकिरणोद्गमैर्घनरागदं
दरीमुखेषु व्याकुलायमानसिंहधनरावकम् ॥] किंभूतम् । नभस्तलमिव ग्रहैनक्षत्रः शोभितम् । उच्चत्वात् । एवं विमानं व्योमयानं तत्सहितम् । वितानं विस्तारस्तत्सहितं वा । यद्वा सविमानम् विगतं मानं यस्य । तद्भावो विमानता तत्सहितम् । अपरिमेयमित्यर्थः । स विमानगं वा । विमानगा देवास्तत्सहितम् । सर्वमिदं द्वयोरप्यन्वेति । एवं शिखरै रुद्धो यः प्रलयमारुतस्तद्रभसस्य तद्वेगस्य विमानदमपमानदम् । प्रसरभञ्जकत्वात् । अपमाननाकर्तारं वा। वितानदं वा । मारुतरभसवितानस्य तत्समूहस्य खण्डकमित्यर्थः । एवं रत्न शिखराणां किरणोद्गमैर्घनेभ्यो मेघेभ्यो रागदं लौहित्यदम् । पद्मरागादिकान्तिसंक्रमात् घनो रागोऽनुरागो यत्र । रत्नादि एव तादृशं वा। वस्तुतस्तु रत्नशिखरकिरणोग्रम् । रत्नशिखराणां किरणेन दिशि दिशि प्रसारणेन उपमुद्भटम् । एवमेधिघन राजकम् । एधः समृद्धिस्तद्विशिष्ट एधी, एधिनी समृद्धौ धनौ मेघौ राजानौ वा यत्र तादृशं के मस्तकं यस्य तम् । तयोः समत्वात् । एवं कंदरामुखेषु व्याकुलायमानो विमूर्छनशीलः सिंहस्य घनो रावो नादो यत्र तम् । प्राशस्त्ये कन् ॥७२।।
विमला-यह ( सुवेल ), गगनतल के समान, ग्रहों से शोभित एवं (विमान) व्योमयान से युक्त है। यह रत्नमय शिखरों के उद्गत किरणों से मेघों को लाली प्रदान करता है तथा इसकी कन्दराओं में सिंह के व्याकुलायमान गम्भीर गर्जन की ध्वनि होती है ॥७२॥ व्यापकत्वमाह
जम्मि समस ब्य विसा झोण व्व मही कावसाणं व णहम् । प्रथमिश्रो व्व समुद्दो पढें व रसाप्रलं जिसण्णं व जअम् ।।७३।। [ यस्मिन्समाप्ता इव दिशः क्षीणेव मही कृतावसानमिव नभः ।
अस्तमित इव समुद्रो नष्टमिव रसातलं निषण्णमिव जगत् ॥ ] यस्मिन्पर्वते दिशः समाप्ताः पर्याप्ता इव । तद्वयतिरेकेणान्यत्रानवलोकनात् । मही क्षीणेव क्षुद्रेव । नितम्बपर्याप्तत्वात् । नभः कृतावसानमिव । कृतमवसानमन्तो यस्येत्यर्थः । यावदाकाशस्य तेनैव व्याप्तत्वेन व्यवच्छेद्यवृत्त्यभावात । अस्तमित इव समुद्रः। बृहत्कटकाक्रान्तत्वेन कंदरान्तर्गतत्वेन चादृश्यमानत्वात् । रसातलं नष्टमिव । बृहन्मूलावष्टन्धत्वात् । जगन्निषण्णमिव । मूलमौलिपार्श्वेषु पर्यवसितत्वात् ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org