________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[३५५
पुनस्तदेवाहतामरमरआअम्बं सरेसु सुबन्तमुहुरसर अम्बम् । गहिआमिसहरि अइ वेलाणिल सीहरोल्लवणहरि अइअम् ॥ ३१ ॥ [ तामरसरजआतानं सरस्सु श्रूयमाणमधुरस्वरकादम्बम् ।
गृहीतामिषहरिदयितं वेलानिलशीकरार्द्रवनहरितायितम् ।।] एवं सरस्सु तामरस रजोभिराताम्रम् । एवं तत्रैव श्रूयमाणा: सन्तो मधुरा हृद्याः स्वरा येषां तथाभूता: कादम्बा हंसा यत्र तम् । एवं गृहीतमामिषं मांसं यया तथाभूता हरेर्दयिता सिंही यत्र । यद्वा गृहीतामिषाणां हरीणां सिंहानां दयितं प्रीतिविषयः । यद्वा गृहीतं प्राप्तमामिषं लोभनीयं भक्ष्यं यत्र तथाभूतम् । अत एव हरीणां दयितं प्रीतिविषयो दयापात्रं वा । यद्वा गृहीता आमिषवल्लोभनीया, आमिषं सुन्दरी वा, हरे रामस्य दयिता सीता यत्रेत्यर्थः । एवं वेलानिलशीकरेणार्वनहरितायितं हरिद्वर्गीकृतम् । यद्वा हरिताचितम् । आर्टेषु वनेषु हरिताभिर्दाभिराचितं व्याप्तमिति विश्रामयोग्यतोक्ता । 'आमिषं सुन्दराकारे रूपादिविषयेऽपि च' इति विश्वः ।।३।।
विमला-यह पर्वत कमलों के परागों से ताम्रवर्ण हो गया है । यहाँ सरोवरों में हंसों का मधुर स्वर सुनायी दे रहा है। सिंह की प्रिया (सिंही) मांस ग्रहण किये है तथा समुद्र के अनिल-शीकरों से आर्द्र वनों ने इस ( पर्वत ) को हरे रंग का कर दिया है ।।३१।। पुनः कंदरागाम्भीर्यमाहमिलिअसमुद्दद्धन्ते पाडणहमण्डले पहुत्तदसदिसे । उइअथमिप्रविणअरे भुवणविहाए व्व कंदरे वहमाणम् ॥ ३२॥ [ मिलितसमुद्रार्धान्तान्प्रकटनभोमण्डलान्प्रभूतदशदिशः ।
उदितास्तमितदिनकरान्भुवनविभागानिव कंदरान्वहमानम् ॥] एवं कंदरान्वहमानम् । कीदृशान् । मिलिताः प्रविष्टाः समुद्रस्यैकदेशा येषु तान् । एतेन विकटत्वेन पातालरूपत्वमुक्तम् । वस्तुतस्तु मिलितः समुद्रो यत्र तादृशोऽर्धान्त एकदेशो येषामिति । समुद्रादप्याधिक्यमुक्तम् । एवं प्रकट नभोमण्डलं येषु । एतेनोलोकस्वरूपत्वम् । एवं प्रभूताः पर्याप्ता दशदिशो येषु । अनेन मर्त्यरूपत्वम् । एवमुदितः सन्नस्तमितो दिनकरो येषु । अनेन विस्तीर्णत्वम् । इदमेवोत्प्रेक्ष्यते-भुवनानां विभागो येषु तानिव भुवनविभागस्वरूपानिवेति वा । त्रिभुवनस्य तत्रैव पर्याप्तिरिति भावः । यद्वा भुवनविभागानिवेति सहोपमा । यथा स्वशरी रेणावष्टभ्य त्रिभुवनं वहमानं तथा कंदरानपीत्यर्थः । 'भुवनविघातानिव'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org