________________
भाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम्
[ ३४३ एवं शेषस्य शिरोरत्नघट्टितानां घृष्टानां मणीनां अर्थात् स्वमूलस्थानां मूलोद्दयोतैघृष्टाधोभागतेजोभिहंतं रसातलस्य तिमिरं येन तम् । यदा यदा शेषस्य शिरसि सुवेतमूल स्थित्या भारो भवति तदा तदा शिरःसंचारेण तद्रत्नैः सहैतन्मणीनां संघटो जायते इति मूल महत्त्वं मणीनामाकरत्वं चोक्तम् । एवं विषमाणां वक्रकोटरादिमताम् । ऊर्ध्वानामुच्चानां शिखराणां संकटेषु मिथोऽन्तरालेषु प्रनष्टेनाकस्मात्तिरोभूतेन रविमण्डलेनान्धकारितं गगनं येन । तथा च पार्श्वत एव सूर्यस्य संचारो न तु मौलाविति कदाचित्कोटरप्रविष्टत्वेनान्धकार इत्युच्चत्वमिति भावः ॥ ६ ॥
विमला-( इसका मूलभाग इतने नीचे तक गया है कि ) शेषनाग के सिरों के रत्नों से इसके अधोभाग की मणियाँ रगड़ खाती हैं, जिनके प्रकाश से रसातल का तिमिर नष्ट हो गया है। (यह इतना ऊँचा है कि ) इसके विषम एवं उन्नत शिखरों के दर्रा में अकस्मात् सूर्य-मण्डल के तिरोहित हो जाने से गगन तिमिराच्छन्न हो गया है ।। ६ ।। पुनरुच्चतामाह
ससिबिम्बपास णिहसणक सणसिलाभित्तिपसरिआमअलेहम् । जोहाजलपवालिविसमम्हाअन्तणि परविरहमाम् ॥ १० ॥ [ शशिबिम्बपावनिघर्षणकृष्णशिलाभित्तिप्रसृतामृतलेखम् ।
ज्योत्स्नाजलप्रप्लावितविषमोष्मायमाणज्ञातरविरथमार्गम् ॥] एवं शशिबिम्बस्य पार्श्वनिधर्षणेन कृष्णशिलाभित्तिषु प्रसृता अमृत लेखा यत्र तम् । शशिबिम्बस्य मृदुत्वेन पार्श्व शिलाभित्तेः कठिनतया मिथःसंबन्धादमृतक्षरणमिति भावः । एवं ज्योत्स्ना चन्द्र कान्तिः सैव जलं हिमरूपत्वात्, तेन प्रप्लावितः पूरितः । अत एव विषमं यथा स्यात्तथोष्मायमाणो बाष्पायमाणः, तत एव ज्ञातो रविरथस्य मार्गो यत्र। रविरथस्य वह्निमयत्वेन देध्मीयमानस्तन्मार्गो विधुकरस्वरूपजलसंबन्धोद्गतबाष्परूपधुमेनानुमीयत इत्यर्थः। न केवलं रविरेवाधस्तादस्य संचरलि, किं तु द्विगुणोपरिवर्ती चन्द्रोऽपीति भावः । लतादिव्यवहितत्वेन तन्मार्गस्य क्वचित्क्वचिज्ज्योत्स्नासंबन्धेनोष्मायमाणत्वमिति सूचयितुं विषमपदोपादानम् ॥१०॥
विमला-( मृदु ) चन्द्रबिम्ब का ( कठिन ) पार्श्व-शिलाभित्ति से निघर्षण होने पर यहाँ अमृतक्षरण होता है। यहाँ ( वह्निमय ) रविरथ का ( लतादिव्यवहित ) मार्ग, विधुकररूप जल से पूरित होने पर उद्गत बाष्परूप धूम के द्वारा ही जाना जाता है ॥१०॥ पुनस्तदेवाहसिहरालीण मिअङ्क विरलट्ठिअगहिअसलिलजल अक्खण्डम् । खुडिउब्बूढमुणालं णिसासु विसमहिअकदमं व सुरगअम् ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org