SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ नवम आश्वासः अथाश्वासकेनैव सुवेलं वर्णयति अह पेच्छन्ति पवङ्गा सअलज प्रक्कमणवढिअमहासिहरम् । णिट्ठविवाहिणदिसं सेसदिसामुहवहाविमं व सुवेलम् ॥ १॥ [अथ प्रेक्षन्ते प्लवङ्गाः सकलजगदाक्रमणवर्धितमहाशिखरम् । निष्ठापितदक्षिणदिशं शेषदिङ्मुखप्रधावितमिव सुवेलम् ॥ ] अथ सुवेलप्राप्त्यनन्तरं प्लवङ्गाः सुवेलं प्रेक्षन्ते । कोटिकोटिशः पर्वता उत्पाटिताः, ईदृशः कोऽपि न दृष्ट इति विस्मयादिति भावः । किंभूतम् । सकलजगतामाक्रमणं येभ्यस्तथाभूतानि वधितानि महान्ति शिखराणि यस्य, त्रिकूटत्वादिति केचित् । सकलजगदाक्रमणाय वर्धितानि महान्ति शिखराणि यस्येत्यपरे । वस्तुतस्तु-आक्रमण इति कर्तरि ल्युट । तथा च सकलजगदाक्रमणकर्ता मूलेन पातालस्य, मध्येन' मर्त्यस्य, मस्तकेन स्वर्गस्याक्रमणात् । तथाभूतश्चासौ वर्धितमहाशिखर श्चेति कर्मधारयः । कश्चित्तु 'सअलजअक्कमण' इत्यादिप्रकृतौ 'सकलस्य जयाय यत्क्रमणमतिक्रमस्तेन वधितानीत्यादि पूर्ववत्' इत्याह । एवं निष्ठापिता नाशिता दक्षिणदिग्येन तिरोधायकत्वात् । एवं शेषा याः पूर्वाद्या दिशस्तन्मुखेन तत्संमुखीभूय प्रधावितं तत्तदिग्व्यापकनानाशिखरद्वाराकृतवेगमिवेत्युत्प्रेक्षाव्यञ्जनयारोहपरिणाहाभ्यां विस्तार उक्तः ॥१॥ विमला-सुवेल पर पहुँच कर वानरों ने उस गिरि को देखा कि उसके महान् शिखर सकल लोकों को ( मूल भाग से पाताल को, मध्यभाग से मर्त्यलोक को और शिरोभाग से आकाश को) आक्रान्त किये हुए हैं एवं दक्षिण दिशा को तिरोहित कर शेष पूर्वादि दिशाओं की ओर (उन्हें तिरोहित करने के लिये) मानों वेग से बढ़ रहे हैं ॥ १ ॥ पुनः सुवेलस्य महत्त्वमाह-- भुअणस्स व महमहणं भुवणभरज्झोण महुमहस्स व सेसम् । सेसस्स व सलिलहिं सरिआवइणो विसम्मिबव्वभरसहम् ।।२।। [ भुवनस्येव मधुमथनं भुवनभरक्षीणमधुमथनस्येव शेषम् । शेषस्येव सलिलनिधिं सरित्पतेर्विश्रमितव्यभरसहम् ॥] किंभूतं सुवेलम् । सरित्पतेः समुद्रस्य विश्रमितव्यं विश्रामः । भावे तव्यः । तत्र भरसहं भारक्षमम् । समुद्रस्याप्यवलम्बन मित्यर्थः । कस्य कमिव । भुवनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy