________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ३३१
जलस्य रयेण धूयमानास्तदभिघातेन दोलायमानाः । ' जलअर -' इति पाठे तथाभूतजलचरेण करिमकरादिना धूयमाना इत्यर्थः । एवं प्रग्राहो जलसिंहस्तेन समग्रा: संपूर्णाः । कल्लोलेन सह तेषामपि तत्र गमनादिति भावः यद्वा वेला तटं तद्रूपा
मार्गा इति । सेतुरपि समुद्रस्यैकं तटमभूदित्यर्थः ॥९३॥
विमला- आगे बढ़ते और पीछे लौटते जल के वेग से चंचल लहरें जलसिंहों के समेत सेतु के ऊपर पहुँचती थीं ॥ ६३ ॥
सेतो सिंहावस्थामाह
सेलाइञ्छन पडिमा सलिलोल्लिअगरुअकेसर भरक्कन्ता । वीसन्ति दरुत्तिष्णा संकमपासल्लसंठिया केसरिणो ॥ ६४ ॥ [ शैलातिक्रमपतिताः सलिलाद्रितगुरु कके सरभराक्रान्ताः । दृश्यन्ते दरोत्तीर्णाः संक्रमपार्श्व संस्थिताः केसरिणः ॥ ]
केसरिणो गिरिसिंहा दृश्यन्ते । किंभूताः । सेतुनियोजनकाले शैलस्यातिक्रमेणाकर्षणेन पतिताः । जले इत्यर्थात् । अथ सलिलेनाद्रितानामत एव गुरुकाणां केसराणां भरेण गौरवेणाक्रान्ताः सन्तो दरोत्तीर्णाः किंचिदुत्थिताः । अत एव संक्रमपार्श्वे संस्थिताः । आर्द्रकेसर गौरवेणोर्ध्वमारोढुमशक्तत्वात् । इत्यतोऽपि सेतोरुत्तुङ्गत्वमुक्तम् ||१४||
विमला - (सेतु में नियोजित किये जाते समय ) पर्वत के आकर्षण से गिरिसिंह जल में गिर गये, अत एव सलिल से आर्द्र केसर ( गर्दन के बाल ) के भार से आक्रान्त वे ( ऊपर चढ़ने में असमर्थ ) कुछ ऊपर आकर सेतु के पार्श्व भाग पर संस्थित दिखायी दे रहे थे ।। ६४ ।।
अथ जलचरसंचार प्रतिरोधमाहपुव्वावरोअडिगआ वठ्ठे
पुव्वावरोमहिसमुध्वण्णा ।
से उपडिसिद्धपसरा पुणो ण पेच्छन्ति कुलहराई जलभरा ||५| [ पूर्वापरोदधिगता द्रष्टुं पूर्वापरोदधिसमुत्पन्नाः । सेतुप्रतिषिद्धप्रसरा पुनर्न पश्यन्ति कुलगृहाणि जलचराः ॥ ]
पूर्वश्वापरयोदधिः । उदधेर्भागद्वयमित्यर्थः । तदुत्पन्ना जलचरा जलसिंहादयः पुनरपि कुलगृहाणि स्वोत्पत्तिगृहाणि न पश्यन्ति । किंभूताः । पूर्वापरोदधिगता तदुत्पन्ना अपि द्रष्टुं तद्भागावित्यर्थात् । ये पूर्वभागोत्पन्नास्ते पश्चिमभागं गताः, पूर्वभागम् । अथ मध्यवर्तिना सेतुना प्रतिषिद्धः प्रसरो गतागतं येषां तथाभूताः । [ तथाभूता: ] सन्तः स्वस्वस्थानं परावृत्य नागच्छन्तीत्यर्थः । एतेन सेतोस्तलस्पर्श-ताभङ्गुरताच्छिद्रता तुङ्गता शीघ्रोत्पन्नता च सूचिता ॥ ६५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org