________________
सेतुबन्धम्
[प्रथम
लम्बः । सेतुबन्धरावणवधसीतासमागमानां द्वितीयतृतीयचतुर्थानामपेक्षया शरदेव प्रथमो हस्तालम्बः । शरत्प्राप्तिरेव तस्य दुष्करासीत् । तस्यां तु सत्यां सर्वमिदमीषत्करमिति भावः । एवं सीताया बाष्पाणामश्रूणां विघातोऽवसानम् । रामसमागमाध्यवसायात । वधमहतीति यत्प्रत्ययेन वध्यमिति साधु । तथा च दशमुखस्य वधार्थी दिवस इति सर्वत्र रूपकम् । पूर्व निपातानियमाद्वध्यो दशमुखो यत्र एतादृशो दिवस इति वा । रावणवधस्य दिवस एव वृत्तत्वादित्यर्थः ।।१६।।
विमला-वर्षा ऋतु के अनन्तर सुग्रीव का यशोमार्ग, रामचन्द्रजी का प्रथम हस्तालम्ब, सीता का बाष्पविधात तथा रावण के मारे जाने का दिन, शरद् ऋतु आ गयी।
विमर्श--यहाँ कवि ने शरद को सुग्रीव का यशोमार्ग इसलिए कहा है क्योंकि बिना शरद् के आये सेतुबन्धन आदि कार्य करने का श्रेय सुग्रीव प्राप्त नहीं कर सकते थे । इसी प्रकार राम के सभी कार्य शरदागम पर ही निर्भर थे, अतः उसे राम का प्रथम हस्तालम्ब कहा गया। शरदागम से सीता को राम-समागम की दृढ़ आशा हो जाने से उसे सीता का अश्रुविघात कहा गया ॥१६॥ अथ सप्तदशभिः स्कन्धकै: शरदमाहरइअरकेसरणिवहं सोहइ धवलब्भवलसहस्सपरिगमम् । महुमहदंसणजोग्गं पिग्रामहुप्पत्तिपङ्कअं व णहमलम् ।। १७ ।। [रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्रपरिगतम् ।
मधुमथनदर्शनयोग्यं पितामहोत्पत्तिपङ्कजमिव नभस्तलम् ॥] नभस्तलं शोभते । कीदृशमिव । पितामहस्य ब्रह्मण उत्पत्तिपङ्कजमिव । नभः कीदृक् । केस रनिवह इव रविकरा यत्र तथाभूतम् । एवं दलसहस्राणीव सभङ्गिधवलाभ्राणि तैः परिगतं व्याप्तम् । एवं मधुमथनस्य नारायणस्य दर्शनयोग्यम् । उत्तानसुप्तस्य तस्योत्थाने सति तत्रैव दृष्टिपातसम्भावनासत्त्वात् । अथवा मधुमथनस्य रामस्य दर्शनयोग्यम् । जलदविगमेन मादकत्वाभावात्प्रयाणसमयलाभाच्च । कमलमपि रविकरसदृशकेसरनिवहं धवलाभ्रसदृशदलसहस्रपरिगतं मधु मथ्नातीति मधुमथनस्य भ्रमरस्य दंशनं दशनक्रिया तद्योग्यं भवति । यद्वा मधुमथनस्य नारायणस्य दृश्यतेऽनेनेति दर्शनं चक्षुस्तद्योग्यम् । तस्य पुण्डरीकाक्षत्वात् । यद्वा मधुमहेन मधूत्सवेम दर्शनयोग्यम् । केचित्तु पङ्कजमिवेति पृथक्कुर्वते । प्रियायाः सीताया महोत्पत्तिरुत्सवोत्पत्तिर्यस्मात् । मेघाद्यपगमेन सुखदत्वादिति नभोविशेषणम् । पितामहस्योत्पत्तिर्योति पङ्कजविशेषणमिति व्याचक्षते। साधर्म्यमुपमा भेदें इत्युषमालङ्कारः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org