________________
२६८]
सेतुबन्धम्
[ अष्टम
तो कअणधाउअम्बो सपल्लवासोअविडवभरि प्रदरिम हो। पढमं णलेण णिमियो मङ्गलकलसो व्व जलणिहिम्मि महिहरो॥२६।।
(जुग्गअम् ) [ अथानेन सुखस्पर्श पितुः सलिले मङ्क्त्वा सनियमम् ।
रामचरणयोः प्रथमं पश्चात्कृत्वा रविसुतस्य प्रणामम् ॥ ततः कनकधात्वाताम्रः सपल्लवाशोकविटपभृतदरीमुखः । प्रथमं नलेन नियोजितो मङ्गलकलश इव जलनिधौ महीधरः ॥]
(युग्मकम् ) अथ सिद्धान्तानन्तरं अनेन नलेन जलनिधौ महीधरो मुक्त इत्युत्तरस्कन्धकेन संदानितकम् । किं कृत्वा। क्षोभशान्त्या सुखस्पर्श सलिलेऽर्थात्समुद्रस्य सनियम सविधि मक्त्वा स्नात्वा प्रथमं पितुर्विश्वकर्मणः शिल्पिनामुपास्यत्वात् ततो रामचरणयोरुपजीव्यत्वात् पश्चाद्रविसुतस्य नायकत्वात् प्रणामं कृत्वा । महीधरः कीदृक् । कनकं सुवर्णं धातुगैरिक माभ्यामाताम्रम् । यद्वा कनकधातुः सुवर्णगैरिकं तेनाताम्रम् । एवं सपल्लवेनाशोकविटपेन भृतं पूर्ण दरीरूपं मुखं यस्य । क इव । मङ्गलकलश इव । सोऽपि कनकेन धातुना चाताम्रः । तत्संबन्धादेव पल्लवसहिताशोक विटपभृतदरीप्रायमुखश्च । लोकाचारादयमेव प्रकृते मङ्गलकलशोऽभूदिति भावः । युग्मकम् ।।२८-२६।।
विमला-तदनन्तर नल ने समुद्र के सुख-स्पर्श जल में यथाविधि स्नान कर ( शिल्पियों के उपास्य ) पिता (विश्वकर्मा ) को, तदनन्तर ( उपजीव्य ) श्रीराम के चरणों को, तदनन्तर ( नायक ) सुग्रीव को प्रणाम कर सर्वप्रथम समुद्र में एक पर्वत मङ्गल कलश-सा स्थापित किया, जो सुवर्ण और धातु ( गेरू ) से किञ्चित् ताम्रवर्ण तथा जिसका कन्दरामुख सपल्लव अशोक तरु से पूर्ण था। ( दोनों स्कन्धकों का अन्वय एक साथ होने से इनकी 'युग्मक' संज्ञा है ) ॥२८-२९॥ अथ प्रथम क्षिप्तपर्वतावस्थामाह
तह पढमं विअ मक्को वेलाअडसंठिओ णलेण माहिहरों। जह दीसिउ पउत्तं लङ्काणत्थस्स से उबन्धस्स मुहम् ॥३०॥ [ तथा प्रथममेव मुक्तो वेलातटसंस्थितो नलेन महीधरः ।
यथा द्रष्टु प्रवृत्त लङ्कानर्थस्य सेतुबन्धस्य मुखम् ॥] वेलातटे पूर्वधृतत्वात्संस्थितो महीधर नलेन प्रथममेव तथा प्रकारेण मुक्तः समुद्रे क्षिप्तो यथा लङ्काया अनर्थो यस्मादेवंभूतस्य सेतुबन्धस्य मुखमुपक्रमो द्रष्टुं प्रवृत्तमारब्धम् । कपिभिरित्यर्थात् । तथा च प्रथमपर्वतक्षेपेणैव सेतोर्मुखमासीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org