________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२६७ [प्लवगबलै रागसंजातमत्सरैर्गगननिरायतभिन्नघनभीषिताप्सरोभिः । स्फुटधवलाग्रदन्तप्रतिप्रेरिताधरैभिद्यते सागरस्य सलिलं धराधरैः ।।]
प्लवगबलैः कतभिर्धराधरैः क रणैः सागरस्य सलिलं भिद्यते। गिरिक्षेपण द्विधाक्रियत इत्यर्थः । किंभूतः प्लवगबलः । रागेण द्वेषेण रावणं प्रति संजातमात्सर्यैः । अथवा रामं प्रत्यनुरागेण रावणं प्रति जातमात्सर्यैः । मत्सरशब्दोऽपि क्रोधवाची । एवं गगने निरायता गमन वेगपवनेन दीर्धीकृताः सन्तो भिन्नाः पृथक्कृता ये घनास्तरपरिचितपूर्व विकटाकारतया भीषितास्त्रासिता अप्सरसो यस्तैः । एवं स्फुटं व्यक्तं धवलार्दन्तः प्रतिप्रेरितः क्रोधेन दष्टोऽधरो यः । 'गअपेल्लिआहरेहिं' इति पाठे धराधरैः किंभूतैः। स्फुटधवलाग्राभ्यां दन्ताभ्यां गजेन प्रेरितो भिन्नोऽधरो नितम्बो येषां तैः । प्राकृतत्वाद गजशब्दस्य परनिपातः । तथा च पातशङ्कया नितम्बे दन्तो निखाय गजा यत्र स्थिता इत्यर्थः । अत्र पक्षेऽपरमपि विशेषणद्वयं मात्सर्योद्दीपकत्वेन मेघानां भेदकतया च बहुव्रीहिणा धराधरगतमपि । एतेनोत्साहाधिक्यमुक्तम् ।।४।।
बिमला-द्वेषवश (रावण के प्रति ) उत्पन्न मत्सर बाले, अतएव प्रकट रूप में धवल अग्रभाग वाले दांतों से होंठ चलाते हुये, गगन में अपने गमनवेग से दीघं तथा छिन्न-भिन्न कर दिये गये मेघों से अप्सराओं को भयभीत करते हुये वानरों ने पर्वतों से सागर के सलिल को विदीर्ण कर दिया ।।४।। महेन्द्रगिरिखण्डपतनमाहपवणभरन्तरिमहं पवणसुअक्कन्तविहलि असिलाघेढम् । पडइ सिहरोजमरुग्गअमहिन्धधणुगम्भिणं महिन्दवखण्डम् ।।४६॥ [पवनभ्रियमाणदरीमुखं पवनसुताक्रान्तविघटितशिलावेष्टम् ।
पतति शिखरनिर्झरोद्गतमहेन्द्रधनुर्गभितं महेन्द्रखण्डम् ॥] महेन्द्रस्य गिरेः खण्डं पतति समुद्र एव । किंभूतम् । पवनेन भ्रियमाणं दरीमुखं योति विकटोदरत्वम् । एवं पवनसुतेन हनुमता आक्रान्तं समुद्रलङ्घनसमये चरणाभ्यामवष्टब्धं यन्त्रितमत एवं शिथिलमूलं सत्तदानीं विघटितं शिलावेष्ट यस्य तत् । मलयमहेन्द्रयोरेव चरणौ दत्त्वा हनूमानन्धिं लङ्घतवानित्याशयः । एवं शिखरनिर्झरेषूद्गतं यन्महेन्द्रधनुस्तद्गभितम् । नानामणिमरीचिसंपर्कात्सूर्यतेजसा जले शक्रधनुरुत्पत्तिः । तथा चेन्द्रधनुःसत्तया गिरिखण्डस्य श्यामत्वेन मेघोपमा व्यज्यते ॥४६॥
विमला-पवन से पूर्ण कन्दरामुख वाला, पवनपुत्र के द्वारा ( समुद्र लाँघने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org