________________
२२६ ]
सेतुबन्धम्
[ षष्ठ
हुये ) भूतल में पाताल भी थोड़ा-थोड़ा दिखायी पड़ रहा था ( क्योंकि उखाड़े गये पर्वतों का मूलभाग पातालव्यापी था ) ॥ ६४ ॥
पर्वतीय मीन महिषक्षोभमाह
मीणउलाइ अवित्र सिढिले न्ति जीविअं ण अ गदोहराई विअसन्ते मुअन्ति धरणिहरसंभमे अणदोहराई। महिसउलाण (फलिह) मणिसिलावेल्लिआण वणचन्दणासि आणं अवसेसो वि णत्थि तिमिरुग्गमाण जह चन्दणासिआणम् ||६५।। [ मीनकुलान्यपि च शिथिलयन्ति जीवितं न च नदीगुहाणि (नदीह्रदान्वा ) विकसति मुञ्चति धरणिधरसंभ्रमे नयनदीर्घाणि । महिषकुलानां (स्फटिक) मणिशिलाप्रेरितानां मवशेषोऽपि नास्ति तिमिरोद्गमानां यथा
वनचन्दनाश्रितानाचन्द्रनाशितानाम् ॥]
धरणिधरसंभ्रमे विकसति मीनकुलानि कर्तृणि जीवितमपि शिथिलयन्ति न च नदीरूपाणि गृहाणि मुञ्चन्ति । अत्र यत्स्यात्तत्स्यादिति कृत्वा तत्र स्थित्वा जीवितमपि नाशयन्ति न तु भयादन्यत्र गच्छन्तीत्यर्थ: 1 मीनकुलानि कीदृशानि । नयनवद्दीर्घाणि नयनेन दीर्घाणि दीर्घनयनानीति वा । एतेन तद्वयापकमाकार महत्त्वमायातीति संप्रदायः । वयं तु - कीदृशानि । न च न दीर्घाणि अपि त्वतिदीर्घाणि । निषेधद्वयबलात् । यद्वा नतनदीभराणि नगनदीभराणि वा । नतानां निम्नानां गभीराणां नदीनां नगनदीनां वा भर: पूर्णता येभ्यस्तानि । प्रवाहपूरणक्षम देहत्वात् । यद्वा नतनदीधराणि नगनदीधराणि वा । नता नदीर्नगनदीर्वा धारयन्ति स्वशरीरेण सेतुवदवष्टभ्नन्तीत्यर्थः । एतेन मीनानां महत्त्वमुक्तम् । वस्तुतस्तु संभ्रमे विकसति सति मीनकुलानि नगनदीगृहाणि नतनदीगृहाणि वा न च न मुञ्चन्ति अपि तु मुञ्चन्ति । अत एव जीवितमपि शिथिलयन्ति । संभ्रमान्नदीमपि त्यक्त्वा यान्ति तत्र जल विरहाज्जीवितमपि नाशयन्तीत्यर्थः । कीदृशानि । दीर्घाणि इति कर्मकर्त्रीरपि विशेषणमिति ब्रूमः । एवं वनचन्दनाश्रितानां महिषकुलानां (स्फटिक) - मणिशिलाभि: प्रेरितानां सतामवशेषोऽपि नास्ति । पर्वतानां वक्रभावे स्वभावपिच्छिल स्फटिक भूमेः स्खलनात्सर्वमेव नश्यतीत्यर्थः । दृष्टान्तयति - यथा चन्द्रेण नाशितानां तिमिरोद्गमानामवशेषोऽपि न तिष्ठतीति चन्द्रस्फटिकयोस्तिमिरमहिषयोः सितासिताभ्यां साम्यमिति संप्रदायः । मम तु किंचिच्चमत्करोति - किंभूतानां महिषकुलानां वनचन्दनासितानां वनचन्दनेष्वासितानामुपविष्टानाम् । अथवा वनचन्दनेषु आ अत्यर्थेन असितानां श्यामानाम् । चन्दनानां शुभ्रत्वेन तन्मध्ये महिषश्यामिकोद्रेकादित्यर्थः । यद्वा वनचन्दनासिकानां वनचन्दने आसिका उपवेशनं येषाम् । यद्वा वनचन्दनमस्यति क्षिपतीति वनचन्दनासि तादृक्कं मस्तकं येषामिति वा । शृङ्गाभ्यां तत्क्षेपणात् ।
•
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org