SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२०१ समुद्र उद्धावित उच्छलितः । कीदृक् । प्लवगैः क्षोभिते महीतले धुतस्य मलयस्य पतद्भिः शिखरैर्मुक्तः प्रकाशितः कलकलः कोलाहलो यत्र तादृक् । कपिचलने भूचलनं तेन मलयकम्पस्तेन तच्छिखरपतनं तदभिघातेन च समुद्रे कोलाहलाकारः शब्दो जलानामुच्छलनं च वृत्तम् । अत्रोत्प्रेक्षते-अनागते भविष्यत्सेतुबन्धपूर्वकाल एव घटमानः संपद्यमानो धरणिधरैः संक्रमो जलयन्त्रपथो यत्र तथाभूत इव । सेतुबन्धसमये पर्वतानामविघातेन यः शब्दो यच्च वा जलोच्छलनादिकं भविष्यति तदिदानीमेव मलयशिखरपतनाज्जायत इत्यर्थात् । अथवा मलयशिखरपतनं न भवति कि तु सेतुसंक्रमघटनमित्युत्प्रेक्ष्य पुनस्तजन्योपमर्दवासेन कलकलं कृत्वा क्वचिदन्यत्र गन्तुं धावित्वा चलित इत्युद्धावितपदेन सशब्दजलोच्छलनं पलायनत्वेनोत्प्रेक्षितम् । अन्योऽप्यकस्माद्भयहेतुमवलोक्य कोलाहलं कृत्वा धावित्वा गच्छनीति ध्वनिः । अनागतो भविष्यन्नेव घटमानो धरणीधरसंक्रमः स इवेति वा ।।२१।। विमर्श-वानरों के चल पड़ने से पृथ्वी डगमगा उठी, अतएव कम्पित मलयगिरि के गिरते हुये शिखरों से समुद्र में कोलाहल मच गया, मानों भागी सेतुबन्ध के पहिले ही पर्वतों से सम्पन्न किये जाते हुये पथ के कारण ( भयभीत ) समुद्र कलकल कर ( अन्यत्र) जाने के लिये दौड़ चला ॥२१॥ अथ कपिचलने भूपर्वतयोः क्षोभमाहकम्पइ महेन्दसेलो हरिसंखोहेण दलइ मेइणिवेढम् । सइदुद्दिण्णतणाओ णवर ण उद्धाइ मल अवणकुसुमरओ ॥२२॥ [ कम्पते महेन्द्रशैलो हरिसंक्षोभेण दलति मेदिनीवेष्टम् (पृष्ठं वा)। सदादिनाद्र केवलं नोद्धावति मलयवनकुसुमरजः ॥] हरयो वान रास्तेषां संक्षोभेण पर्वताहरणोद्योगेनेतस्ततो गत्या तेभ्यः संक्षोभेण वा महेन्द्रप्रभृतीनां शैलानां कम्पो मेदिनीमण्डलस्य च दलनं सर्वमेव जायते । केवलं मलयवनकुसुमानां रजः परागो नोद्धावति. नोवं गच्छतीत्यर्थः । तत्र हेतुमाह--कीदृशम् । सदा दुदिनेन मेघच्छन्नतया तज्जलसंवन्धादाम् । अतो लघुत्वाभावादित्याशयः । तथा च महतां संभ्रमे महान्त एव खिद्यन्ते लघुनां किमपि नेति स्वनिः । यद्वा मलयवनकुसुमरजस्तूज़ न गच्छति किं तु केवलं दुदिनार्द्रमतो गुरुत्वादधः पसतीत्यर्थः । सेन मलयोऽपि कम्पित इति ध्वनितम् ।।२२।। विमला-वानरों के संक्षोभ से महेन्द्र पर्वत कांप गया, सारा भूतल रौंद उठा। सदा मेघाच्छन्न होने के कारण ( उस समय ) मलयवन का आर्द्र कुसुमपराग ऊपर की ओर उड़कर नहीं गया ।।२२।। अथ कपीनामुत्फालमाहतो संचालिअसेलं कह वि तुलग्गेण समघडन्तक्कम्पम् । दूरं पवंगमबलं गहमु हलग्गवसुहं णह उप्पइ अम् ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy