________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[११७
शाखायें शब्दायमान एवं कम्पमान हो गयीं तथा ( उसमें लिपटे ) सर्प स्थान-स्थान पर गिर गये ॥७॥ द्वि विदस्य चेष्टामाहदिप्पन्तदुरालोआ विवि अस्स सधूमसिहिसिहावत्तणिहा। सोम्मत्तणं ण पत्ता हरिसभरेन्ती विविसहरस्स व विट्ठी ॥८॥ [दीप्यमानदुरालोका द्विविदस्य सधूमशिखिशिखावर्तनिभा। सौम्यत्वं न प्राप्ता हर्षभ्रियमाणापि विषधरस्येव दृष्टिः ॥] द्विविदस्य दृष्टिहर्षेण भ्रियमाणापि सौम्यतासामग्रीसत्त्वेऽपि सौम्यत्वं न प्राप्ता। सुग्रीवोक्त्या रोषेण दुनिरीक्ष्यत्वात् । तदुक्तम्-दीप्यमाना रोषोद्गततेजोविशेषमयी मत एव दुरालोका दुनिरीक्ष्या। पुनः कीदृशी। मभूमशिखिनो यः शिखावतंस्तनिभा तत्तुल्या। अत्र वह्विप्राया दीप्ता दृष्टिधूमप्रायस्त्वसौम्यताहेतूदत्ततारकादिच्छवि विशेषः । केव । विषधरस्य दृष्टिरिव । यथा सर्पस्य दृष्टि: सौम्यत्वं न प्राप्नोति । अत्रापि दीप्यमानेत्यादि पूर्ववदेव योज्यम् । श्यामारुणयोर्विषतज्ज्वालयोदृष्टो संक्रमात्सधूमवह्नितुल्यत्वम् । यथा सापराधं द्रष्टुमुद्यतः कालसर्पः प्रतिबन्धकसद्भावे दूरादपि सक्रोधमालोकते तथायमपि सुग्रीवं प्रभुरिति किमप्यजल्पन्नुद्धतं ददर्शति भावः । उत्साहादेव दृष्टेरियं चेष्टति केचित् ॥८॥
विमला-( रोष से उत्पन्न तेज के कारण ) दीप्यमान अतएव दुनिरीक्ष्य, सधूम अग्नि की लपट के सुल्य, द्विविद नामक वानर की दृष्टि हर्षपूर्ण होकर भी विषधर ( सर्प ) की दृष्टि के समान सौम्यता को न प्राप्त कर सकी ॥८॥ शरभचेष्टामाहसरहो वि दरिम हग अपडिसहप्फुडिअमलप्रअड़पन्भारम् । मुञ्चइ विसणारं मलेइ अङ्गच रोसविसअण्णाप्रम् ॥६॥ [शरभोऽपि दरीमुखोद्गतप्रतिशब्दस्फुटितमलयतटप्राग्भारम् । मुञ्चति विशदं नादं मृनात्यङ्गं च रोषविषाम् ॥]
शरभोऽपि विशदं नादं मुञ्चति । उच्चननादेत्यर्थः । अङ्गं च मृद्नाति । पाणिना दृढं ममर्दैत्यर्थः । नादं कीदृशम् । दरीमुखादुद्गत उत्थितो यः प्रतिशब्दस्तेन स्फुटितो भिन्नो मलयतटस्य प्राग्भार एकदेशो यस्मात् । प्रतिशब्दः कुहरगर्ने प्रविश्यावकाशेनोर्ध्वमुच्छलतीति मलयस्फुटनेन' शब्दोत्कर्ष उक्तः । अङ्गं च कीदृक् । रोष एव विषं व्याकुलीकारसमर्थत्वात्तेनाद्रं तदानीमेव व्याप्तम् । अन्योऽपि विषस्पृष्टं वपुः कण्डूयमानो मृनातीति प्रकृते सुग्रीवोक्त्या रोषात्कृतस्याङ्गमर्दनस्व रोषरूपविषस्पर्शजन्यक ण्डूयाकृतत्वमुत्प्रेक्षितम् ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org