________________
उपशमनाकरणम
[ गाथा-१५ इहाऽन्नमुहूर्तप्रमाणनिक्षेपकालो दलर चनारूपगुणश्रेणिकालोऽपूर्वकरणाऽनिवृत्तिकरणाद्धाद्वयाद् विशेषाऽधिको द्रष्टव्यः, तावत्कालमध्ये चाऽधस्तनोदयममये वेदनतः क्षीणे सति शेषसमयेषु दलिकं रचयति, न पुनरुपरिगुणश्रेणि वधयति । अर्थात्प्रथमसमये यद् गुणश्रेणे: शिर आसीत् , तदेव द्वितीयसमयेऽपि भवति, किन्वये न प्रवर्धते, नतः प्रथमममयमत्करचनाया द्वितीयममयरचना समयन्यूना भवति, समयस्य वेदितत्वात् । एवमपूर्वकरणाऽनिवृत्तिकरणयोर्यावन्तस्समया वेदिता भवन्ति. नायन्तम्ममया गुणश्रेणिनिक्षपान्यूना भवन्ति ।। बेदितसमयवर्जशेषाऽन्तमुहूर्तप्रमाणो निक्षेपो भवतीत्यर्थः । उक्तंच
सेदीए कालमाणं दुण्ह य करणा य समाहिलं जाण । खिज्जा सा उदएणं जं सेसं तम्नि निक्खेवो ॥१॥ अथ स्थितिघातादिषु पदार्थेषु विशेषोऽभिधीयते
ननु यदोपरितनस्थितौ स्थितिघातो भवति, तदा तद्व्यतिरिक्तस्थिती निर्व्याघातभाव्यपवर्तना मवति, उत न १ यदि भवति, तर्हि कुत्र १ इति चेद् , उच्यते-स्थितिघातो नाम व्याघातभाव्यपवर्तना । अपवर्तना खलु द्विधा-व्याघातभाविनी निर्व्याघातभाविनी च । तत्र व्याघातभाविन्यपवर्तनास्थितिघातयो नव भिन्नत्वं पदार्थेन त्वभिन्नत्वम् । अर्थात स्थितिघातस्य व्याघातभाव्यपवर्तनात्वेन व्यपदेशो भवति । उक्तं च "ठिइघाओ एस्थ होह वाघाओ" तत्स्वरूपं तु स्थितिघाताऽवसरे दर्शितम् । द्वितीयानिाघातभाव्यपवर्तना, सा चोदयावलिकावर्जसर्वस्थितिस्थानकेषु भवति । तत्र नियाघातभाव्यपवर्तनायो स्थितेर्घातो न भवति, अपि तूदयावलिकायां गताः स्थितियः सकलकरणायोग्या इति कृत्वोदयावालकावर्जात्प्रत्येकस्थितिस्थानात्कतिपयानि दलिकानि गृहीत्वाऽऽवलिकामात्रां स्थितिमतिक्रम्याऽधस्तनसर्वस्थिनिस्थानकेषु प्रक्षिपति, अतिक्रम्यमाणा स्थितिरतीत्थापना इति व्यपदिश्यते । ____ अतिस्थाप्यतेऽतिक्रम्यते या स्थितिः, सा अतीत्थापना "णिवेत्त्यासपघवन्देरनः" (सिद्धहेम ५।३।११३) इति सूत्रेण कर्मणि 'अन'प्रत्ययः। 'हान् प्रत्ययस्य स्त्रीवृत्तित्वाद"आत्' (मिद्धहेम० २।४।१८) इति सूत्रेण 'आप' प्रत्ययः । तत आवलिकामात्रस्थितिरतीत्थापना भवति, किन्तूदयावलिकाया या उपरितना समयमात्रा स्थिति, तस्या दलिकान्यपवर्तयन्नुदयावालकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याऽधस्तने समबाऽधिके तृतीये भागे निक्षिपति, एष जबन्यो निक्षेपः । निक्षिप्यतेऽस्मिन्निति निक्षेपः "भावाऽकत्रोः" (सिद्धहेम० ५।३.१८)
छाया-अणे: सलमान द्वयोः करणयोः समाधिकं जानीहि । क्षीयते सोदयेन यच्छेष तस्मिन्निक्षेप ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org