________________
उपशमनाकरणम्
[ गाथा १०-११
प्रथमसमयस्य प्रथमखण्डं वर्जयित्वा शेषाणि सर्वाणि खण्डानि द्वितीयसमयेऽनुवर्तन्ते । एवं द्वितीयसमयस्य प्रथमखण्डं वर्जयित्वा शेषाणि सर्वाणि खण्डानि तृतीयसमयेऽनुवर्तन्ते । एवं यावद् द्विचरमसमयस्य प्रथमखण्डं वर्जयित्वा शेषाणि सर्वाणि खण्डानि चरमसमयेऽनुवर्तन्त इति वक्तव्यम् । प्रथमसमयवतिप्रथमखण्डं तथा चरमसमयवर्ति चरमखण्डं चाऽन्यत्र नानुवर्तेते, शेषाणि खण्डानि तूत्तरत्राऽनुवर्तन्ते । प्रथमसमयस्य जघन्यमध्यवसायस्थानं प्रथमं भवति तथा द्वितीयसमयस्य जघन्यमध्यवसायस्थान मे कोनपञ्चाशदधिकद्विशततमं भवति । तत्र प्रथमसमयसत्कप्रथमखण्डस्य प्रथमाऽध्यवसायस्थानत एकोनपञ्चाशदधिकद्विशततमाऽध्यवमायस्थानस्य द्वितीयखण्ड सत्काऽऽद्याऽध्यवसायस्थानत्वेनाऽनन्तगुणवृद्ध ं भवति, तथा तदुत्तरवर्तिखण्डस्याऽऽद्यमप्यनन्तगुणवृद्धं भवति । इदमे कोनपञ्चाशदधिकद्विशततमाऽध्यवसाय स्थानं प्रथमसमयस्य द्वितीय खण्डवर्तितेष्वध्यवसायस्थानं प्रथमसमयवर्तिप्रथमखण्ड सत्कचरमाऽध्यवसायस्थानादप्यग्रेतनं भवतीति प्रथमखण्डस्य जघन्यलक्षणप्रथमाऽध्यवसायस्थानाच्चरमाऽष्टचत्वारिंशदधिकद्विशततमाऽध्यवसायस्थानस्याऽनन्तगुण वृद्धत्वेने कोनपञ्चाशद् द्विशततमस्य सुतरामनन्तगुणत्वं सिध्यति ।
३६ ]
अत एव प्रथमसमयस्य जघन्याऽध्यवसायस्थानादृ द्वितीयसमयवर्तिजघन्याऽध्यवसायस्थानमनन्तगुणवृद्धम् । एवं द्वितीयसमयस्य जघन्याऽध्यवसायस्थानात्तृतीयसमयवर्तिजघन्याऽध्यवसायस्थानमनन्तगुणं वृद्धम्, एवं तृतीयसमयवर्तिजघन्याऽध्यवसायस्थानाच्चतुर्थसमयत्रर्तिजघन्याऽध्यवसायस्थानमनन्तगुणं वृद्धं भवति । चतुर्थसमयस्य जघन्याऽध्यवसायस्थानस्यैकपञ्चाशदधिकसप्तशततमत्वेऽपि प्रथमसमयस्य चतुर्थखण्डस्य जघन्याऽध्यवसायो भवति, तथा प्रथमसमयस्य चतुर्थखण्डस्योत्कृष्टाऽध्यवसाय स्थानं चतुरधिकसहस्रतमं भवति, तच्च जयन्याऽध्यवसायस्थानतोऽनन्तगुणं भवति । तत एव चतुर्थसमयवर्तिजघन्याऽध्यवसाय स्थानतः प्रथमसमयस्योत्कृष्टाऽध्यवसायस्थानमनन्तगुणवृद्धम् । पञ्चमसमय सत्कजघन्याऽध्यवसायस्थानं यत्पञ्चमखण्डस्य प्रथमं तच्चतुर्थखण्ड सत्कचरमाऽध्यवसायस्थानादनन्तगुणं वृद्धम्, यतः कस्यचिदपि खण्डस्य चरमाऽध्यवसायस्थानात्तदुत्तरवर्त्तिखण्डस्य प्रथमाऽध्यवसायस्थानमनन्तगुणवृद्धं भवति ।
तत एव चतुर्थखण्डस्य चरमाऽध्यवसायस्थानलक्षणप्रथमसमयस्योत्कृष्टाऽध्यवसायस्थानात्पश्ञ्चमखण्डस्य प्रथमाऽध्यवसायरूपं पश्चमसमयस्य जघन्यमध्यवसायस्थानमनन्तगुण वृद्धं भवति तथा पञ्चमखण्डस्य प्रथमाऽध्यवसायस्थानरूपात्पञ्चमसमय सत्कजघन्याऽध्यवसायस्थानादू द्वितीयसमयस्योत्कृष्टाऽध्यवसायस्थानं पञ्चमखण्डस्य चरमाऽध्यवसायस्थानत्वेनाऽनन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org