________________
彝
अल्पबहुत्वम् ]
चारित्रमोहनीयोपशमनाधिकार
[ २५५
विशेपाऽधिको भवति, घातित्रयस्य पत्योपममात्रस्थितिवन्धादनन्तरभावी पल्योपमसंख्येयभाग मात्रो ज्ञानावरणदर्शनावरणान्तराय वेदनीयानां नूतनस्थितिबन्धोऽत्र ग्राह्यः, पूर्वतो वृहत्तरत्वात् । (८६) तत आरोहकस्य मोहनीयस्य पन्योपमसंख्यातभागमित आद्यः स्थितिबन्धो विशेषाऽधिकः, स च पूर्वतो बृहत्तरः ।
(८७) ततश्चरमस्थितिखण्डं संख्येयगुणम् । तच्च सूक्ष्मसंपरायचरमसमये ज्ञानावरणादिकर्मणां भवति, तस्य च पन्योपमसंख्येय भागप्रमाणत्वेऽपि पूर्वतः संख्यातवृहत्तरत्वं वाच्यम् । (८८) पल्योपममात्र स्थितिबन्धात्प्राग्यः स्थितिबन्ध आसीत्, तस्माद् येन पल्योपमसंख्येयभागेन भूत्वा पयोमप्रमाणः स्थितिबन्धो भवति, स पल्योपमसंख्येयभागः पूर्वतः संख्यातगुणः । (८६) ततः पल्योपमः संख्येयगुण, पूर्वपदस्य पल्योपमसंख्यातभागमात्रत्वात् ।
(६०) तत आरोहकस्याऽनिवृत्तिकरणप्रथमसमयभावी स्थितिबन्धः संख्येयगुणः । आरोहकाऽनिवृत्तिकरणप्रथम समय भाविस्थितिबन्धस्याऽन्तः सागरोपमकोटिप्रमाणत्वेन सागरोपमलक्षपृथक्त्वात् पूर्वतोऽस्य संख्येयगुणत्वं संभवति ।
(६१) ततोऽवतारकाऽनिवृत्तिकरण चरमसमय भावी स्थितिबन्धः संख्यातगुणः ।
(९२) तत आरोहकस्याऽपूर्वकरण प्रथमसमयभावीस्थितिबन्धः संख्यातगुणः । अपूर्वकरणस्य प्रथमममय आरोह कोऽन्तः सागरोपमकोट | कोटीप्रमाणां स्थिति बनातीति कृत्वा पूर्वत इदं पदं संख्यातगुणं संभवति ।
(९३) ततः प्रतिपातुकस्याऽपूर्वकरण चरमसमये स्थितिबन्धः संख्येयगुणः | ५ (६४) ततः प्रतिपातुकस्याऽपूर्वकरणाचरमसमये स्थितिसत्त्वं संख्येयगुणम् ।
(६५) ततोऽवरोहकस्याऽपूर्वकरण प्रथमसमये स्थितिसत्त्वं विशेषाऽधिकम् । येषां मनावतारकस्याऽपूर्व करणे स्थितिघातादयो न भवन्ति तेन तैः स्थितिन्यू ना न भवति किन्तूदयेन क्षीणा भवति । इत्थम पूर्वकरणप्रथमसमये यत्स्थितिसत्त्वमासीत्, तदेवाऽन्तमुहूनिमपूर्वकरण चरमममये भवति, उदयेनान्तमुहूर्त कालस्य वेदितत्वात् येषां मतेनावतारकस्यापि स्थितिघाता भवन्ति तेषां मतेन संख्यातैः स्थितिखण्डैन्यूनं भवति । तच्च न्यूनत्वं संख्येयभागमात्रम्, तेन चरमसमयतः प्रथमसमये स्थिति सच्चमन्तर्मुहूर्तकालेन वा संख्येयभागेन वाऽधिकं भवतीति कृत्वा पूर्वत इदं पदं विशेषाऽधिकं संभवति ।
5 अंकोडाकोडीपमाणन्तत्रविसेसेवि सम्माइट्ठिम्मि बंधातो संतस्स संखेज्जगुणभावेन एवं सम्वद्ध अवद्वाणादो ( जयघवला १६३७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org