________________
अल्पबहुत्वम् ] चारित्रमोहनीयोपशमनाधिकारः
[ २५३ (६६) ततस्तदानीमेवोपशमकस्य संज्वलनचतुष्कस्य जघन्यस्थितिबन्धस्संख्यातगुणः । उपशमकस्य पुरुषवेदसत्कचरमस्थितिबन्धकालीनसंज्वलनचतुष्कस्थितिबन्धस्य द्वात्रिंशद्वार्षिकत्वेन पूर्वतः संख्यातगुणन्वं न्याय्यम् ।
(७०) तेन प्रतिपातुकस्य पुरुषवेदस्य जघन्यस्थितिबन्धस्तुल्यः, प्रतिपततो जन्तोरपि पुरुषवेदसत्कबन्धप्रथमसमये प्रारभ्य माणस्य स्थितिबन्धस्य द्वात्रिंशद्वर्षप्रमाणत्वात्पूर्वपदेन तुल्यत्वं न्याय्यम् ।
(७१) ततः प्रतिपातुकस्य तदानीं संज्वलनचतुष्कस्य स्थितिबन्धो द्विगुणः । आरोहकतोऽवतारकस्य स्थितिबन्धस्य द्विगुणत्वेन प्रतिपातुकस्य तदानीं पुरुषवेदबन्धसमय इत्यर्थः, संज्वलनचतुष्कस्य चतुषष्टिवर्षप्रमाणत्वात्पूर्वतः संख्यातगुणत्वं युक्तमेव ।।
(७२) तत आरोहकस्य मोहनीयस्य संख्यातवर्षप्रमाणः प्रथमस्थितिबन्धः संख्यातगुणः । अन्तरकरणक्रियायां समाप्तायां मोहनीयस्य स्थितिबन्धः संख्यातवर्षमात्रो भवति, सोऽत्र ग्राह्यः, नाऽन्यः ।
(७३) ततोऽवतारकस्य चरमो मोहनीयस्य संख्येयवार्षिकः स्थितिबन्धः संख्यातगुणः । आरोहकतोऽवरोहकस्य संक्लेशाऽधिक्यास्थितिबन्धस्य प्रभूतत्वं संभवति । श्रेणितः प्रतिपततोऽल्पकालपर्यतं द्विगुणनियमस्य सद्भावादत्र पूर्वतः संख्यातगुणत्वे न कश्चिद् बाधः ।
(७४) तत उपशमकस्य घातित्र यस्य प्रथमःसंख्येयवर्षप्रमाणः स्थितिबन्धःसंख्यातगुणः । आरोहकम्य स्त्रीवेदोपशमनाकालस्य संख्येयतमे भागेऽतीते प्रवर्तमानसंख्येयवार्षिक आद्यस्थि. तिवन्धः प्रवर्तते, सोऽत्र ग्राह्यः ।
(७५) ततः प्रतिपातुकस्य घातित्रयस्य चरमसंख्येयवार्षिकः स्थितिबन्धः संख्येयगुणः । अत्र हेतुम्तु त्रिसप्ततितमपदवज्ज्ञातव्यः । अयं विशेषः-श्रेणितः प्रतिपातकस्य स्त्रीवेदोपशमनाऽपगमनत आरभ्य नपुंसकवेदोपशमनाऽपगमपर्यन्तं विद्यमानकालस्य संख्येय बहुभागेषु व्यतिक्रान्तेषु घातित्रयस्य यश्चरमः संख्येयवार्षिकः स्थितिबन्धः, सोऽत्र ग्राह्यः ।।
१७६) तत उपशमकस्याऽघातित्रयम्य प्रथमः संख्येयवर्षप्रमाणः स्थितिबन्धः संख्यातगुणः । आरोहकस्य हास्यषट्कोपशमनायाः संख्येयतमे भागे व्यतीते योऽघातित्रयस्याऽऽद्यः संख्येयवार्षिकः स्थितिबन्धो भवति, सोऽत्र निश्च तव्यः।
(७७) ततोऽवतारकस्याऽघातित्रयस्य चरमः संख्येयवार्षिकः स्थितिबन्धः संख्येयगुणः । हेतुम्तु त्रिसप्ततितमपदवदवाऽप्यवगन्तव्यः । पुरुषवेदोपशमनानाशतः प्रभृति स्त्रीवेदोपशमनानाशपर्यन्तं विद्यमानस्य कालस्य संख्येयवहुभागेषु व्यतिक्रान्तेषु योऽघातित्रयस्य चरमः संख्येय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org