________________
२३६ ! उपशमनाकरणम्
[ गाथा ६५ मश्रेणिं प्रतिपत्तप्रभवति, किन्तूपशमणिं समारुह्य तस्मिन्नेव भवे आपकश्रेणिं न समारोहेत , उक्तं चाऽन्यत्राऽपि-"अन्नयरसेढिवज एगभवेणं च सम्वाई" इति । इत्थमुक्ता पुरुषवेदोदयविशिष्टस्य जन्तोरारोहणाऽवरोहणप्रक्रिया । अथ स्त्रीवेदोदयविशिष्टस्य नपुंसकवेदोदयविशिष्टस्य च प्रक्रियाविशेषमभिधित्सुराह
उदयं वजिय इत्थी इत्थीं समयइ अवेयगा सत्त। तह वरिसवरो परिसवरि इत्थिं समगं कमारद्धे ॥६५॥
उदयं वर्जयित्वा स्त्री स्त्रीं शमयत्यवेदका सप्त ।
तथा वर्षवरो वर्षवरं स्त्री समकं कमारब्धे (सति) ॥६५॥ पुरुषवेदारूढो नपुंसकम्त्रीवेदद्विकस्योपशमने यावन्तं कालं गमयति, स्त्रीवेदारूढस्तावकालमात्रीं स्त्रीवेदस्य प्रथमस्थिति विमुच्याऽन्तरकर प्रकरोति । अन्तरकरणं कृत्वाऽऽदौ नपुसकवेदं प्रोपशमयति, अन्तमुहूर्तकालेन सर्वथोपशम्य स्त्रीवेदमुपशमयितुमुपक्रमते, तं च तावदुपशमयति यावत्म्वोदयस्य चरमसमयः। तस्मिंश्च समय एका चरमसमयरूपामुदयस्थिति वर्जयित्वा शेषसकलमपि स्त्रीवेदलिकं सर्वथोपशमयति वेदनतो नाशयति ।
• तदानीं पुरुषवेदस्य स्थितिबन्धो संख्यातसहस्रवर्षप्रमाणः संभवति । कथमेतदवगन्तव्यम् ! इति चेत् , उच्यते--पुरुषवेदारूढस्य पुवेदबन्धविच्छेदतः स्त्रीवेदाऽऽरूढस्य पुरुषवेदसत्ककालबन्धस्याऽर्वाग्व्यवच्छेदादिति ब्रुमः ततोऽनन्तरसमये पुरुषवेदस्य बन्धो व्यवच्छिन्नो भवति । ततः प्रभृत्यवेदका सति हास्यषट्कपुरुषवेदरूपसप्तनोकषायान युगपदुपशमयितुमारभते । अन्तमुहूर्तेन कालेन सर्वथोपशमयति । उक्तं च कर्मप्रकृलिचूौँ- 'अवेतिगा सति छन्नोकसाते पुरिसवेयं च सत्तकंमपगडीओ जुगव उवसामेति।" इति । तथैव कषायप्रा. भूतचूर्णावपि-"इत्थिवेदेणं उपहिवस्म णाणत्त पत्तहस्सामो तं जहा अवेदो सत्त. कम्मसे उवसामेदि सत्तण्हं पि उवसामणद्धा तुल्ला । एदं जाणत्तं । सेसा सव्वे वियप्पा परिसवेदेण सह सरिसा।" इति । अा पुरुषवेदाऽऽरूढवद् हास्यषट्के सर्वथो. पशान्ते पुरुषवेदस्य समयोनावलिकाद्विकबद्धनूतनदलिकमनुपशान्तं न तिष्ठति, किं कारणमिति चेद् ! उच्यते-पुरुषवेदोदयारूढस्य हास्यषटकसत्कस्य सर्वथोपशमनस्य चरमसमयेऽपि पुरुषवेदो बध्यमान आसीत् , स्त्रीवेदारूढस्य तु हास्यषट्कोपशमनाप्रारम्भादेव पुरुषवेदस्य बन्धव्यवच्छिन्नो भवति । ततः परमन्तमुहूर्ते व्यतिक्रान्ते सप्तनोकषाया युगपत् सर्वथोपशम्यन्ते,
.टिप्पणी- महाबन्धे स्त्रीवेदमार्गणायां पुरुषवेदस्य जघन्यस्थितिबन्धः संख्यातसहस्रवार्षिक: प्रोक्तः स च क्षपकश्रेणा उशमश्रेणी वाऽत्रैव सङ्गच्छते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org