________________
४२७
पञ्चकल्याणनायकः ।
धाम्नांपते तवामूनि नामान्यागमकोविदैः । समुच्चितान्यनुध्याय - न्युमान्पूतस्मृतिर्भवेत् । ।१ । । गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः । स्तोता तथाप्यसन्दिग्धं, त्वत्तोऽभीष्टफलं भजेत् । । २ । । त्वमतोऽसि जगद्बधु - स्त्वमताऽसि जगभिदषक् । त्वमतोऽसि जगद्धता त्वमतोऽसि जगद्धितः । । ३ । । त्वमेकं जगतां ज्योति - स्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्यङ्गः स्वोत्थानन्तचतुष्टयः । ।४ । । त्वं पञ्चब्रह्मतत्त्वात्मा, षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसङ्ग्रहः । । ५ । । दिव्याष्टगुणमूर्ति स्त्वं नवकेवललब्धिकः । दशावतारनिर्धार्यो, मां पाहि परमेश्वर ! । । ६ । । युष्मन्नामावली दृब्ध - विलसत्स्तोत्रमालया । भवन्त वरिवस्यामः, प्रसीदानुगृहाण नः । ।७।। इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः । यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम् । । ८ । । ततः सदेदं पुण्यार्थी, पुमान्पठतु पुण्यधीः । पौरुहूतीं श्रियं प्राप्तुं परमा-मभिलाषुकः । । ६ । । स्तु तुत्वेति मघवा देवं चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य, व्यधात्प्रस्तावनामिमाम् । ।१० । । स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम् । । ११ । । यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित् ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वन कस्यचित् । यो नेतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षणः स श्रीमान् जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः । । १२ ।। तं देवं त्रिदशाधिपार्चितपदं घातिक्षयानन्तरं प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनम् । मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपतिं प्राप्ताचिन्त्यबहिर्विनद्यंभूतिमनद्यं भक्त्या प्रवन्दामहे | |१३|| (इति श्रीभगवज्जिनसहस्रनामस्तोत्रं समाप्तम्)
Jain Education International
जैनधर्म और तांत्रिक साधना
"
For Private & Personal Use Only
www.jainelibrary.org