SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 20 પત્રમાં ભલે સમાધાન પ્રગટ ન કરે તો પણ આપે જિજ્ઞાસુ પ્રત્યે પ્રગટ કરવું જોઈએ તેમ મને એગ્ય લાગે છે. આમ છતાં પણ સબળ કારણને લઈ ઉત્તર આપ આપને ઉચિત ન લાગતું હોય તે એ વિષયમાં મારો આગ્રહ નથી ઇતિ શમ, કૃપા કરીને પત્ર લખશે. નેધ–આ પત્રમાં પન્યાસ ભાનુવિજયજીએ જણાવ્યું કે જિજ્ઞાસુ પ્રત્યે શંકાને ઉત્તર આપવાથી તેનો વિસ્તાર અટકશે અને સાચું સમાધાન થશે તે આપને ન્યાય મળશે. છતાં યોગ્ય લાગે તેમ કરશો અમારો આગ્રહ નથી. Vadia College, Poona. 27-11-43 पंन्यासश्रीभानुविजयगणिषु वैद्योपाह्रस्य श्री परशुरामशर्मणः परः शताः प्रणतयो विज्ञप्तिश्च । भवतां २४-११-४३ दिने लिखितं पत्रं यथासमयमेव मयाऽधिगतम् । यद्यपि भवतां सौजन्ये तथा भवदीयानामाशङ्कानां सद्भावे नास्ति मे कोऽपि संशयावकाशस्तथापि अप्राप्तकालमेवाधुनाऽपि भवदाशंकापनोदस्येति मन्ये। मदीयं निर्णयपत्रमधिकृत्य यदान्दोलनमद्यापि प्रचलति तस्य मूलं त्वन्यदेव। प्रतिकूलं निर्णयं ज्ञात्वा प्रकुपितैराचार्यश्रीसागरानन्दसूरिभिः पूर्वप्रदत्तां स्वानुमति विस्मृत्य मदुपरि ताटस्थ्यभङ्गारोपः कृतः सार्वजनीन एव । तदनुसारिभिश्च मुनिश्री हंससागरैः पंन्यास श्री कीर्तिमुनिभिश्च 'धनलुब्धेन मया आचार्यश्री विजयरामचन्द्रसूरिसकाशादुत्कोचं गृहित्वैतादृशो निर्णयो लिखितः” इति निर्ग्रन्थसाधूनां सर्वथैवाऽनुचितया वाण्या बहुशो दोषा आरोपिताः । "जैनागमेष्वन्यतमानां श्रीभगवती-श्रीस्थानाङ्गादिसूत्राणां शास्त्राभासत्वमेव ” मया प्रतिपाद्यते इति सर्वथैवाऽसत्यं तैर्वहुधा लिख्यते । यदा च स्वधीतस्त्रागमा मुनयः स्वं महाव्रतं विस्मृत्य मूलसूत्र-दशवैकालिकप्रतिपादित भाषाविवेकं चानादृत्यैवं लिखन्ति तदा का कथा श्रावकाणां कपासीप्रभृतीनाम् । एवंस्थिते प्रस्तुतमसांप्रतमान्दोलनं न निर्णयस्थविषयमूलकं किन्तु स्वमतविरुद्धनिर्णयमूलकमिति स्पष्टमेव । ___ जानामि खलु सन्त्येव केचन स्वधीतागमा निर्ग्रन्थगच्छेषु। यद्यपि मदीयो निर्णयस्तेषामनभिमतो भवेत् तथापि "मध्यस्थोपरि तादृशदोषारोपणं तादृशाश्च वाक्प्रयोगा निर्ग्रन्थसाधूनामानुचिताः इति नाद्यावधि केनापि प्रतिपादितं प्रतिपन्नं वा । सज्जोऽस्मि खलु स्वीयेनापि धनव्ययेन भवादशानां पुरतः स्थातुं स्वनिर्णय समर्थनाय तेषां च समुचिताशङ्कापनोदाय च । ___ यावत्तु मदुपरि आचार्य श्री सागरानन्दादिभिः कृतामिथ्यारोपास्तववस्था एव यावञ्च निर्ग्रन्थसाधवः हंससागरादीनां लेखनं सर्वथाऽस्माकमसंमतम् इति प्रकाशं न कथयन्ति यावच्च श्रेण्ठिश्री कस्तुरभाइ महोदयैरस्मिन् कर्मणि अन. नुशातः तावन्मौनमेष में प्राप्तकालमिति पुनः क्षन्तव्योऽहम् ।। भवदीयः वैद्योपाहा श्री परशुराम शर्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001760
Book TitleParvatithi Nirnay
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherJain Dharm Prabhavaka Samaj Ahmedabad
Publication Year1945
Total Pages524
LanguageGujarati, Sanskrit, Prakrit
ClassificationBook_Gujarati, Tithi, Religion, & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy