________________
॥ कल्याणकलिका. खं० २ ।।
।। १२३ ।।
Jain Education Intern
धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा
॥१॥"
२. चन्द्रः -
‘‘प्रोद्यत्पीयूषपूरप्रसृमरजगतीपोषनिर्दोषकृत्य - व्यावृत्तो ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः ।
उन्माद्यत्कण्टकालीदलकलितसरोजालिनिद्राविनिद्र-चन्द्रचन्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम् ।।२।।’”
“ॐ चं चं चं नमश्चन्द्राय अमृताय अमृतमयाय श्वेतवस्त्राय अक्षतसूत्रकमण्डलुपाणये हरिणवाहनाय सपरिच्छदाय, श्रीचन्द्र ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंध पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा ||२||"
३. मंगल:
“ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुभोजिमान्यः ।
प्रमाथकृत् विघ्नसमुच्चयानां, श्रीमंगलो मंगलमातनोतु || ३ || "
‘“ॐ हूँ हुँ हंसः नमः श्रीमंगलाय विद्रुमवर्णाय रक्तांबराय, रक्ताक्षसूत्रकुण्डिकापाणये गजवाहनाय सपरिच्छदाय, श्रीमंगल ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्टामहोत्सवे आगच्छ आगच्छ जलं गन्धं
For Private & Personal Use Only
-
॥ नव ग्रहपूजा विधिः ॥
।। १२३ ।।
www.jainelibrary.org