________________
॥ कल्याणकलिका. खं० २ ॥
। प्रथमाह्निक कृत्यविधि ॥
॥ ८३ ।।
२ उत्सवक्रिया प्रथमाहूनिकम् । मंडपप्रतिष्ठा-जलयात्रा-कुंभस्थापन विधिओ आह्निक-बीजकम् - प्रविश्य मण्डपं मन्त्र-भूमिशोधनपूर्वकम् । पीठपूजनमाधाया-ऽभिमन्त्र्याऽथ सुखादिकाम् ॥२७॥ बालकेभ्यो वितीर्यादौ, ततो भूतबलिं क्षिपेत् । सिंहासने जिनं प्रत्नं, पीठे नव्यजिनावलिम् ॥२८॥ न्यस्य कुर्याजिनस्नात्रं, चैत्यानां वन्दनं तथा । जलयात्रार्थमृत्कृम्भ-चतुष्कस्याधिवासनम् ॥२९॥ घटोत्पाटनकारिण्यः, सधवा वा कुमारिकाः । रक्षासूत्रेण संरक्ष्य, ततो वाद्यपुरस्सरम् ॥३०॥ जलाशयतटे गत्वा, पूर्वं दिक्षु बलिं क्षिपेत् । क्षेत्रस्य देवतां शान्ति-देवतां जलदेवताम् ॥३१॥ अनुकूलयितुं कुर्यात्, कायोत्सर्गाश्च तत्स्तुतीः । ततो जलाशयात् पूत-घटेषु जलमाहरेत् ॥३२॥ तथैव समहं तूर्य-नादै तदिगन्तरम् । आगत्य जिनगेहान्तर्जलकुम्भान्निवेशयेत् ॥३३॥ कोणेषु मण्डपस्याऽथ, चतम्रो वरवेदिकाः । साच्छादना विषमाझ्यो, न्यस्तव्या विधिवेदिना ॥३४॥ प्रतिवेदि चतुर्दिक्षु, घटकानां चतुष्ट्यम् । न्यस्य तदुपरि स्थाप्या, यववारशरावकाः ॥३५॥ अथवा - विध्यानीतेन नीरेण, घटमापूर्य मन्त्रवित् । स्थापयेजिनदक्षाङ्गे, दीपं तत्पार्श्वतो न्यसेत् ॥३६॥ शरावकेषु वंशानां, पात्रेषु च यवारकाः । वाप्या विधानतः कार्य-मित्यादि प्रथमेऽहनि ॥३७॥
।। ८३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org