________________
( ७०० )
तुषाराद्रिवाताः । पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ११३ ॥ नन्वात्मानं बहु विगणयन्नात्मनैवाऽवलम्बे । तत्कस्याणि त्वमपि नितरां मा गमः कातरत्वम् ॥ कस्थैकान्तं सुखमुर्पेनतं दुःखमेकान्ततो वा । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११४ ॥ शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ । मासानन्यान्गमय चतुरो लोचने मीलयित्वा || पश्चादावां विरहगुणितं तं तमेवाभिलाषं । निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११५ ॥ भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे । निद्रां गत्वा किमपि रुदती संस्वरं विप्रबुद्धा ॥ सान्तर्द्धासं कथितमसकृत्पृच्छतोऽसि त्वया मे । दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ११६ ॥ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा । मा कौलीनादसितेनयने मय्यविश्वसनी भूः ॥ - स्नेहानाहुः किमपि विरहे हाँसिनस्तेऽर्थे भोगा- । दिष्टे" वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ११७ ॥ आश्वास्यैनम् प्रथमविरहे शोर्केदष्टां सखीं ते" । तैस्मादद्वेस्त्रिनयनवृषोत्खातकूटान्निवृत्तः ॥ सामिज्ञानं प्रहितर्वचनैस्तंत्रे युक्तेर्ममाऽपि । प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेदम् ॥ ११८ ॥ कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे । प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।। निःशब्दोऽपि प्रादेशसि जलं यचितश्चातकेभ्यः । प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११९ ॥ एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे । सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या || इष्टान्देशान्विचर जलद प्रावृषा सम्भृतश्रीः । मा भूदेव क्षेणमपि संखे विद्युता विप्रयोगः ॥ १२० ॥
...
१ पूर्वस्पृष्टं । २ न त्वात्मानं; - नात्मना नावलम्बे | ३ सुतरां । ४०मुपगतं । ५ शेषान्मासान्ग० | ६ विरहगणितं । ७ तमात्माभिलाषं । ८ त्वमपि । १० पृच्छतश्च । ११
९ सस्वनं; सत्वरं ।
त्वभोगा० ।
१८ मे;
१३ ध्वंसिनस्ते । १४ भोगा; १७ °रहोदग्रशोकां; ● रहेणार्द्रशोकां । स्वाम् | १९ शैलादस्मात् त्रि० । २० साभिज्ञानप्र० । २१ °तकुशलैः । २२ तद्वचोभिः; त्वद्वचोभिः । २३ व्येथाः । २४ प्रत्याख्यातुं नः प्रत्याख्यानात्; प्रत्याख्यानं । २५ तर्कयामि । - २८ नावर्त्मनो मे;
२६ याचितं । २७ प्रियसमुचित प्रा० र्थनं चेतसो मे; र्थितं चेतसो मे ।
३० च तेन ते ।
Jain Education International
चकितनयने । १२
१५ दृष्टे ।
For Private & Personal Use Only
विश्वासिनी ।
१६ ॰स्यैवं । शैलादाशु त्रि;
० मनुचितप्रा० |
२९ क्वचिदपि ।
www.jainelibrary.org