________________
(६९१) रसनास्तत्र लीलावधूतैः । रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ॥ वेश्यास्त्वत्तो नखसुखपदान्प्राप्य वर्षाग्रबिन्दू-। नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटवान् ॥३७॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाऽभिलीनः । सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः।। नृत्तारम्भे हर पशुपतेरानागाजिनेच्छां । शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३८ ॥ गच्छन्तीना रमणवसतिं योषितां तत्र नक्तं । रुद्धालोके नरपतिपये सूचिभेद्यैस्तमोभिः ।। सौदामन्या कनकनिकषस्निग्धंया दर्शयोर्वीम् । तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ३९ ॥ तां कस्याञ्चिद्भवनवलभी सुप्तपारावतायां । नीत्वा रात्री चिरविलसनारिखन्न विद्युत्कलनः ॥ दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशिष्टं । मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४० ॥ तस्मिन्काले नयनसलिलं योषितां खण्डितानां । शान्ति नेयं प्रणयिभिरतो वम भानोस्त्यजाशु ॥ प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः। प्रत्यावृत्तस्त्वयि कररुधि स्यादनस्पाभ्यसूयः ।।४१॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने । छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।। तस्मादस्याः कुमुदविशदान्यहसि त्वं न धैर्या -। न्मोघीकर्तुं चटुलझ फरोद्वर्तनप्रेक्षितानि ।। ४२ ॥ तस्याः किञ्चित् करधृतमिव प्राप्तवानीरशाखं । हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।। प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि । ज्ञातास्वादो विवृतजैघना को विहातुं समर्थः ॥ ४३ ॥ त्वनिष्यन्दोच्छुसितवसुधागन्धसम्पर्क भ्यः । स्रोतोरन्ध्रध्वनितमधुरं दन्तिभिः पीयमानः ॥ नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरी ते । शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥ ४४ ।। तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा । पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलाः ॥ रक्षाहेतोर्नवशशिभृता वासवीनां चर्भूनां । अादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥ ४५ ॥ ज्योतिलेखावलयि गलितं यरय बहैं भवानी । पुप्रेम्णा कवलदलप्रापि कर्णे करोति ॥ धौतापाङ्ग हरशशिरुचा पावकेस्तं मयूरं ।
१ ०यारचित । २ कान्तहस्ताः। ३ ०मोक्ष्यन्ते । ४ नृत्यारम्भ। ५ रात्रौ । ६ ०बछायया । ७ तविमुखो । ८ मा स्म भूः। ९ रात्रि । १० लनयनात् । ११ स्मास्तस्याः । १२ नीत्वा । १३ पुलिनजघना । १४ °वातः; पुण्यः । १५ वायुः । १६ वसूनाम् । १७ त्रप्रीत्या । १८ लयपद-; दलक्षेपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org